16 भासित्वं दृष्टम् । परतन्त्रेऽप्येतत्सिद्धमेिति दर्शयितुं विषयाकार इत्याद्युक्तम् । न च वाच्यं बुडेराकारा नानावमासन्ते, न बुद्धिः; नैकं अतो नानाव भासत इति; यस्मादेकबुद्धितलुवाव्यतिरेकात्परस्परमपि तेषां तत्वतो भेदो नास्ति, अपि तु भ्रान्तिः । किमुत बुद्धेः सकाशात् । तस्मादुद्धिरेवे ननावभासत इति । बुद्यव्यतिरेकश्च परेषां स्वतन्त्रे सिद्धः । अथ मतम्-येषु नीलपीतादयो गुणाः समवेताः, तष्वेव पटावयवी; तत्र चित्रगुणस्य समवायो यः , स एव नीलादिभिः सह चित्रगुणस्ये त्येकार्थसमवेतसमवायलक्षणः संसर्गः । तत एव नीलादिगतं नानात्वं. चित्रे प्रतिभाति । तेनैषोऽपि संसर्गस्य महिमा । अतस्तन्महिम्नैव जातिः व्यक्ती सिने अप्यभिन्ने प्रतिभास्यत इति चेत्तत्राह-न चेति । संबन्ध पूर्वकः संबन्धः संसर्गो न भवति; कुतः ? । उपवधानादित्यर्थः । ननु व्यवधानेऽपि संसर्गे भवति ; यथा-द्रव्यसंयुक्तस्य चक्षुषो रूपेणेत्यत आह–संश्लेषो हीति । संश्लेषो हि संसर्गः , तस्माच्च परस्यायोगोलकस्य परस्याने रूपेणावभासे भवति; न यतः कुतश्चित् संबन्धात् । स च संश्छेषोऽत्यन्तमव्यवधाने युज्यते ; नैकव्यवधानेऽपि । तन्तुगतस्य नीलादि- रूपस्य पटगतस्य चित्ररूपस्य च तन्तुपटद्वयेन व्यवधानात्सुतरां संश्लेषो न युज्यत इत्यर्थः । व्यर्थ चेयं सामान्यविशेषयोरत्यन्तभेदकल्पनेत्याह--किंचेति । ‘ग शुकामानय’ इति जातिगुणोपाधौ व्यवहारे व्यवहाराङ्गभूता सर्वा धार्न यथार्थ यदा, तदा सामान्यविशेषयोर्मावयोभेदकल्पना व्यर्थेत्यर्थः तव्याचष्टे--यस्येति । यस्य सामान्यविशेषयोरत्यन्तभेदवादिनः ‘शुको गौः ’ इत्याद्या बुद्धयो व्यवहाराङ्गता द्रव्येषु गुणजात्युपघानेन तदनुरञ्जनेन तद्भावापच्या तदभेदेन भवन्ति, तस्य ता बुद्धयो न यथावस्तु ; अन्यभा- बुद्धय इत्यर्थः । कुतः? जातिगुणभ्यां द्रव्यस्यार्थान्तरत्वात् भेदात् भिन्नं बस्तु; बुद्धयक्षभेदेन; अतो न यथावस्तु ता- इत्यर्थः । तुल्यन्यायत्वा दुणोपन्यास, व्यावृत्तबुबिप्रदर्श्वनाथं वा । ततः किमित्याह-तथा चेति ; तथा सति. मिन्नवस्तुनिबन्धनो व्यवहारो न स्यादित्यर्थः । कुत इत्याह
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति