10 ब्रह्मसिद्धिव्याख्या AS विरोधादनुपपन्नेति सापि न स्यादित्यर्थः । अत्रापि स्वरूपविपर्ययो विरोधःन सहानवस्थानम् , तस्य साध्यत्वात् । तदेवं सति यद्भवति तदाह-तत्रेति । ऐकाधिकरण्यादित्यस्यानन्तरम् - अप्रमाणम् ’ इत्यनु वर्तनीयम् । ननु संशयज्ञानं न विरोधादप्रमाणम् ; अपि तु स्थाणुपुरुषयोरन्यतर- निर्णयज्ञानेन बाधनात् । तच्च सामान्यविशेषप्रतीतेर्नास्ति । अतः सत्यपि विरोधे बाधकाभावात् सा प्रमाणमेव । अतः संशयवद्विप्रतिषेधात् सामा न्यविशेषज्ञानमप्रमाणमित्युक्तमयुक्तमित्यभिप्रायेण चोदयति--स्यादिति । सिद्धान्ती त्वाह--यत्रेति । यदि संशयस्य निर्णयेन बाधनान्न प्रामाण्यम् एवं तर्हि यत्र पशुपतनिवातपृथिवीमध्योपलक्षणकीलकनिर्देशात् ‘मध्यम् , अमध्यं वा’ इति संशयस्तत्रैकस्य विकल्प्य मानद्वयात्मतैव स्यात्; न चैवमिष्टम् । अतो 'विरोधादेवाप्रामाण्यम् । एवं चेत् ततोऽसत्यपि बाधने सामान्यविशेषप्रतीतेः संशयवद्विरोधादप्रामाण्यमिति सूक्तमित्यर्थः । एवं विरुद्धमस्वेन सामान्यविशेषज्ञानस्य संशयबदप्रामाण्यमुक्तम् । इदानी- मेकरवानेकस्वज्ञानयोर्विरुद्धार्थयोरेकेनैकनिराकृतौ न इचात्मता ; परस्पर निराकृतौ तु संशयतुल्यत्वमित्याह-अपि चेतेि । रजतज्ञानस्य शुक्ति ज्ञानेन बाधायामेकस्य रजतज्ञानस्य शुक्तिज्ञानेन बलीयसा निराकरणात् बाधनादप्रामाण्यं यथा, तथा एकत्वानेकत्वज्ञानयोर्विरोधेऽपि द्वयोरेकस्य वा ज्ञानस्याप्रामाण्यम् । कुतः? विरुद्धयोरेकानेकवरूपयोर्नहणे विरुद्धरूप प्राहिणोद्दीनयोरन्योन्यनिराकरणात् । तत्र यदीकं बलवत् ततो रजतादिः ज्ञानवदेकस्य निराकरणं परस्मात् शुक्तिज्ञानादिव निश्चयः ; तत्रैकमेव वा । वस्तु स्यात्, इयात्मकं वा न त्वेकं इयमकं च । विरुद्धाव्यमिचारि हेतुद्वयवत् तुल्यबलयोः परस्परनिराकृतौ तु बाधायामेकत्वद्वचारमकवयो र्निश्चयाभावादापनं संशयतुल्यत्वं सामान्यविशेषप्रतिपत्तेः । तस्मादेकान्तेन नैकं नाप्यनेकं वस्तु, किंतु एकं वचामकं चेत्येतद्राहि ज्ञानं सुनिश्नितः मिति वपक्षवर्णनमात्रमिदम्; न भूतं तथेत्यर्थः । इतश्च नैकं इचात्मकमित्याह--अपि चेति । छोकं व्याचष्टे - अवश्यमित्यादि । अवश्यमिह जातिव्यक्त्यादिपदार्थानां भेदाभेदव्यवस्थां
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५०४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति