18 ब्रह्मसाडव्याख्या स्यात् ; यदा त्वभेदादुत्पद्यते नश्यति च, तदा शोकादित्रितयमपि स्यादिति । दुर्घटमापद्यते । तथा वर्धमानकनाशेऽपि तदर्थिनः शोकादित्रितयं स्यात्; तथा रुचकोत्पादेऽपि तदर्थिनस्त्रितयं स्यात् । अथ द्रव्यात् पर्यायाणां छ मिथश्च भेदोऽप्यस्ति; अतो न पूर्वोक्तशङ्काद्यनवस्थादोष इत्युच्यते ; ततो - भेदाभेदवादिनमभेदोऽप्यस्तीति प्रागुक्तो दोषः किं न स्यात् । अथ सत्यमस्यभेदःकिंतु नासावयन्तम् ; तेन तदाश्रयः शोकादिसंकरदषो न भवति, ततो भेदोऽपि नात्यन्तमिति तदाश्रया शोकादिव्यवस्था न 18 स्यादित्याह--अथेति । किंच स विशेष उच्यते, येऽन्यत्र नास्ति ; । अनेकान्तवादिनश्च यदि क्कचिदैकान्तिकं स्यात् तत आत्यन्तिकत्वं विशेषे णामेदं प्रत्युच्येत ; न च तस्य सर्वत्रानेकान्तमिच्छतः किंचिदेकान्ततः अतः सर्वस्यैव नात्यन्तिकत्वम् , यदभेदं प्रति विशेषेण शोकाद्यसंकरा योच्यत इत्याह-न चेति । ननु सार्वत्रिकेऽप्यनेकान्तवादे नात्रापि संकरदोष इत्याशयानेकान्तवादमेव दूषयति-तथा चेति । तथा चेति दूषणोंपन्यासौपक्रमे । सर्वभावानां सर्वप्रकारेषु यद्यनेकान्तस्ततः प्रवृत्ति- "निवृत्तिरहितं जगत्स्यादित्याह । हशब्दः कष्टार्थः । असावतयैवेति ; अभिमतस्यासाधनमित्यर्थः । छोकमन्यथा व्याचष्टे--अथवेति । सर्वत्रानेकान्तवादिनो मम हर्षाद्यप्यस्ति, नास्ति च । अतः प्रीतिमध्यस्थताशोकाः स्युर्न स्युरिति यत् दुर्घटत्वमुक्तं तदिष्टमेव ; एवं न मम दुर्घटमित्याशङ्कयोच्यते- नैकान्त इति । शेषं सुगमम् । एवं सामान्यविशषौ ङ वस्तुनी द्वयात्मकं चैकं वस्त्विति पक्षद्वये दूषिते, भेदाः सत्याः तदुत्था अभेदकल्पना विपर्ययो वेति पक्षद्वयेऽव शिष्टेऽन्यतरनिर्णयार्थमाह--तत्रेति ; तयोः पक्षयोरित्यर्थः । लोकार्थ उच्यते - भेदो हि प्रतियोगिनमपेक्षते ; अते मेदग्रहणपुरःसरो मेदो ग्राह्यो गृहीतुं शक्यों न भवति, अन्योन्याश्रयत्वात् । न चागृहीतस्य तस्याभेदकल्पनोपादानत्वम् ; न हि भेदेनागृहतौ शाबलेयबाहुलेयौ गौणैः' इत्यमेदकल्पनां प्रसुवाते । तस्मादगृहीतो संद नामेदकल्पना- हीति । अभेदज्ञानं तु नामेदमपेक्षते । नापि चैवम्, वरूपहान
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५१२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति