नियोगकाण्ड 189 इतश्च वेदान्तानां विवक्षितार्थत्वाय ‘आमा प्रतिपत्तव्यः' इति विधिर्नापेक्ष्यत इत्याह--दृष्टेति । कर्मविधिवाक्याध्ययने स्वाध्यायविधेर्या P. " दृष्टार्थता, सात्र वेदान्ताध्ययने न भिद्यते, न विशिष्यते, समानेति यावत् । अतः स्वाध्यायविधेर्टष्टार्थत्वेनैव कर्मवाक्यवद्वेदान्नानमप्यविवक्षितार्यता निवृत्तैव; किं प्रतिपत्तिविधिना तदर्थेनेते मावः । इतरथा यदि तु वेदान्ताध्ययने दृष्टार्थता न स्यात् , ततः “ आरमा प्रतिपत्तव्यः' इति विध्यर्थेन सह विध्यर्थः कृत्स्नो वेदान्तार्थोऽविवक्षितः स्यादित्यर्थः । फलान्तरकल्पनेति ; विश्वजिन्यायेन खग रात्रिसत्रन्यायेन दधिमधुकुल्यादि वा फलान्तरमुक्तम्; तथा वेदान्तानामविवक्षितायोनामध्ययनाफलान्तर कल्पना, तत्राप्यात्मावबोधस्य कर्मावबोधवद्दष्टत्वादित्यन्वयः । ननु कर्म वाक्यानां प्रवृत्तिनिवृयुपयोगेनार्थववाद्युक्तं विवक्षितार्थत्वम् ; न तु वेदान्तोत्थायाः सिद्धार्थप्रतिपत्तेः, प्रवृत्रिनिवृत्यनुपयोगेन वैयर्यात् । अतः स्वाध्यायविधिदृष्टार्थता तु भिद्यत इत्याशङ्कयाह-न चेति । किंच प्रतिपत्तिविघावपि वैयर्यस्य तुल्यत्वमेव । तच्च प्रतिपत्तिविधौ तुल्य- मित्यत्र वक्ष्यत इत्याह-प्रतिपत्तीति । ‘भवेत्’ इत्यादिश्छोकाषं व्याचष्टे अवश्यमिति । अवश्यं चैतदेवं विज्ञेयं यत् स्वाध्यायविधेर्टष्टार्थतयैव वेदान्तानामपि विवक्षितार्यता । अन्यथा ‘आत्मा प्रतिपक्षव्यः' इति बिधायनेन सह कृत्स्नस्य वेदान्तस्याविवक्षितार्थता स्यात् । कुतः ? यतः प्रतिपत्तिविचायकशब्दनिबन्धनमिरेषां वेदान्तानां विवक्षितार्थत्वम् । विधायकस्य तु न विवक्षितार्थत्वस्य निबन्धनं हेतुरस्ति । अतों विधाय कस्याविवक्षितार्थत्वान्न तद्वलेनेतरेषां वेदान्तानां विवक्षितार्थत्वामिति सह विधायकेन सर्वे वेदान्ता अविवक्षितार्थाः स्युः । अथ विधायकः शब्दः प्रकृत्या शब्दस्यार्थपरत्वस्वभावत्वेन दृष्टार्थत्वेन च विवक्षितार्थ इत्युच्यते, तत इतरेऽपि वेदान्तस्तथैव विवक्षितार्था भविष्यन्तीति किं विषायते नेत्यर्थः । अयापुरुषार्थसाधने विधिः प्रवर्तयितुं नालमिति विध्यधीनं पुरुषार्थ त्वम् ; अतः शब्दोत्थस्यात्मज्ञानस्य पुरुषार्थत्वसिद्यर्थम् ‘आत्मा प्रति पत्तव्यः' इति विधिरिष्यते, तदपि नेत्याह-ज्ञानस्येति ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५२३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति