पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगकाण्डः 205 गोब्यक्तिषु गोशब्दस्य दण्डिषु दण्डशब्दस्य विभीतकादिषु चाक्षशब्द स्येत्याशङ्कय, सत्यं दृष्ट, किंतु त्रिभिः प्रकारैः इह तु सत्तामेकां विना तेषामेकोऽपि प्रकारो नास्तीति हृदि कृत्वा तत्प्रकारत्रयं तावदुपन्यस्यति तथाहीति । भिन्नं विभीतकत्वादिजातित्रयं निमित्तं प्रवृत्तौ यस्येति विग्रहः । तत्र स्वबुध्द्या रज्यते येन विशेष्यं तद्धि विशेषणम् ; उपलक्षणं तु चिहमात्रम् ; तच्चातीतमपि भवति । न च प्रमाणयोग्येष्वास्तिशब्दप्रवृत्ता वेषमन्यतमः प्रकारोऽस्तीति दर्शयितुं साधारणशब्दं तावन्नरस्यति - तावदिति । अनन्ताश्च ते अर्यवभावा इति विग्रहः । हेतुमाह संबन्धेति । संबन्धिनो गृहीत्वा हि संबन्धो ग्राह्यः ; न चानन्ता ग्रहीतुं शक्याः संबन्धिनः । अततैस्तच्छब्दस्य संबन्घग्रहणासामथ्र्यमित्यर्थः । अक्षादेषु तु साधारणशब्दत्वं युक्तमित्याह-परिमितेति । विभीतकत्वादि जातिविषयाः, तदुपलक्षिता वक्षादिशब्दाः । तेन तत्र परिमितजातित्रयेण तद्वरेण वा अनन्ताभिरपि तद्यक्तिभिः संबन्घग्रहणसं मव इति भावः । ननु ममापि द्रव्यत्वादिजातिंत्रयोपलक्षितानामनन्सानामप्यर्थानां सच्छब्दः साधारणो भविष्यति, - किं सत्तयेति । चोदयति-- शादिति । एतच्च त्रिपदार्थसांकरी सत्तेति दृष्टयोक्तम् । तद्दषयति - तन्नेति । कथमित्याह न किलेति । न हि सर्षपं दृष्टवतो मेरौ “ तदेवेदम्’ इति परामर्शऽस्तीति सत्तापह्नवे या युक्तिः, सा द्रव्यत्वाद्यपह्नवेऽपि तुल्या यत इत्यर्थः । किंच जात्यादिष्वषि सच्छब्दोऽस्ति, स द्रव्यत्वादिनिमित्तत्वे न स्यादित्याह अपिचेति । नन्वैौपचारिकस्तेषु सच्छब्द इत्याह-न तेष्विति । हेतुमाह-प्रत्यय इति । यत्र हि प्रत्ययवैलक्षण्यं तत्रान्यशब्दोऽन्यत्रोप चरितः स्यात् ; यथा अग्निशब्दो माणवके । जात्यादिषु 'सत्' इति प्रत्ययस्यावैलक्षण्यम् ; अतो नोपचार इस्यर्यः । तदुक्तम् -“ जात्यादि- ष्वपि सदुद्धेः सत्ता तजातिषु स्थिता " इति । किंच शौर्यादिसमान्यात् सिंहादिशब्दानामुपचरो दृष्टः ; । न च जात्यादित्रये द्रव्यादित्रयस्य किंचिदेकं सामान्यमस्ति ; अतो नोपचार इत्याह-न चेति । अथारित सामान्यमेकम् , ततः सिद्धमस्मदिष्ठमित्याह-सतीति । द्रव्यादिषु सत्' च ‘इति प्रत्ययाविशेषादित्यर्थः । । मा