पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ub प्रकारान्तरेण सच्छब्दस्य । साधारणतामाशङ्कयति--अथेति । कृण भुगादिप्रवक्तृणां प्रवादेषु प्रवचनेषु सर्वे पदार्थाः परिमितैः कैश्चित् षभिः पञ्चभिर्वा धनैः षट्पञ्चदप्रभेदेन संगृहीताः । ततश्च षट्षधादिपरिमित- घमपलक्षणानामनन्तानामप्यर्थानां ‘ सन् ' इति साधारणशब्दो भविष्यति, यथा विभीतकत्वादिजातित्रयोपलक्षणानामनन्सानां व्यक्तीनामक्षशः इत्यर्थः।। तत्र गुणवच्वं द्रव्याश्रयत्वं निर्गुणस्वं संयोगविभागयोरनपेक्षकारणत्वम् अनुवृत्तबुद्धिहेतुत्रम् अत्यन्तत्रयावृत्तबुद्धिहेतुत्वम् इहप्रत्ययहेतुत्वमित्येतैर्धर्म- द्रव्यादिषट्पदार्थाः कणभुक्प्रवादे संगृहीताः । एवमन्येष्वपि प्रवादेषु वाच्यम् । तदूषयति--तदेति । अयुक्तत्वमाह-संग्रह इति । न हि षड् गावः' इत्येकेन गोस्वेन विना षड् गोव्यक्तयः संग्रहीतुं शक्याः । तत्र सज्ञानम्युपगमाद्यदि सच्छब्दतायां संग्रहः क्रियते-अपभेदः सच्छब्दार्थ इति, ततः सच्छब्दार्थस्य षट्संख्यत्वमुक्तं स्यां , न तु पदार्थान्तरस्वम् । तत् कृत्स्नं जगन्न संगृहीतं स्यात् ; यथा ‘नवविधो गोशब्दार्थः’ इत्युक्ते गोशब्दार्थस्य नवावधत्वमुक्तम्, न पुनर्गाशब्दार्था- दन्ये न सन्तीति । तत्रैतावस्मभेदा एव जगत्ययः , नान्ये इषार्य तवावगतिः प्रवादेभ्यो न स्यादिति कृत्स्रजगत्संग्रहाय प्रनृत्ताः प्रवादा २तदभावें व्यर्थाः स्युरित्यर्थः । पर आह-नन्विति । सच्छब्दस्य साधारणवभावFतव साध्यः न प्रवादोनामर्थवत्ता । अतो यदि नाम तेऽप्यर्थाः, तथापि तदुपदशितैः परिमितैर्धनैः सच्छब्दसाधारणत्वोपपत्तेर्न तवाभिमतसाध्यसिद्धिरिति भावः । सिद्धान्तान्तरदूषणाख्यं निग्रहस्थानं चेदमू । सिद्धान्ती वाह--नेति । साध्यमाह--किंस्विति । प्रवादिनः प्रवक्तारः कणादादयः। हेतुमहयत इतेि । यथा ‘षड् गावः' इति नैकमुपसंग्राहकं गोत्वं विना षट्संख्यानिवेशःतया पञ्च षडित्यादि- पदार्थसंग्रहेऽपि नैकं सामान्यं विना पञ्चषडादिसंख्यानिवेशः । तस्मादेकं किंचित्सामान्यं प्रवादिनः प्रतिष्ठन्ते; तच्च सत्तेत्यर्थः । बौद्धानां विज्ञान वादिनां । रूपविज्ञानवेदनासंज्ञासंस्काराख्यः . पर्धा पदार्थः ;. कणभुजो द्रव्यादयः षट् आदिशब्देन सांख्यायुकपञ्चविंशस्यादयो द्रष्टव्याः । ननु यकमुपसंग्राहकं विना न संख्यानिवेशः, तर्हि प्रमाणथोग्यताया भर्यक्रियासामध्ये चैकस्मिनूपसंग्रहोऽस्तु किं सत्तयेत्याशङ्कयति--अथेति ।