पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियोगकाण्डः ZU एवमाशङ्कय दूषयनि– तश्या मति । यदि च जगद्वयैकप्रमणयोग्यच- मर्थक्रियासमयें वोपसंग्राहकमिष्यते, ततो वरं ताभ्यामेव सच्छब्दार्य उपलक्ष्यताम् , प्रत् प्रमाणयोग्यमर्थक्रियासमर्थं वा तत् सच्चeदार्थ इति ; ते एव सच्छब्दप्रवृत्तौ निमित्तमिति यावत् । ततश्च परिमितघमपन्यास व्यर्थः । एवं च सच्छब्दस्य साधारणतापि न स्यादित्याह -- - तत्रेति । यो भिननिमित्तं भिन्नेष्वर्थेष्वेकः शब्दः स साधारणः, यथा अक्षादिः । एक एव तु जगद्दतनी प्रमणयोग्यत्वार्यक्रियासमये निमित्ते इति सच्छब्दस्य सामान्यशब्दतैव स्यात्, न साधरणत । अथ ते प्रत्यर्थः मिने, न तर्हि उपसंग्राहके ; यत एकमुपसंग्राहकमिति भावः । सच्छ ब्दस्य साधारणशब्दतायां दोषान्तरमाह--भिनेति । यथा ‘अक्षमानय' इत्युक्ते विभीतकत्वादिजातीनां निमित्तभूतानां भेदात् केन निमितेनायं प्रवृक्ष इति संदेहो भवति, तथा ‘सन् घटः’ इत्यत्रापि स्यात्, न सत्ताख्यविशेष प्रतीतिः; न च सोऽरित, ‘शुक्लः पटः’ इतिवत् ‘ सन् घटः’ इत्यत्र प्रतिपत्तु तैराकाङ्क्षयादित्यर्थः । ननु सत्तायामपि द्रव्यं गुणः कर्म वेति, तथा। रूपमथैः सन् विज्ञान व संशयादस्त्येवमादितुल्यत्वमेत्याशङ्कयाह यस्त्विति । सत्यमस्त्ययं संशयःकिंतु बादिनां, न तु लौकिकानाम् ; अत लैकिकाः सच्छब्दप्रवृत्तावभिन्नमेव निमित्तं प्रतिपद्यन्त इत्यवगच्छा इत्यर्थः । किंच साधारणशब्दन् शब्दथः कोऽस्यार्थः ' इति संशये। भवति ; यथा अक्षदेः । जातिशब्दार्थमसंशयं प्रतीस्थ किं त्वरूपोऽयम् इत्यथोत्थस्तद्विशेषसंशयः; यथा गोशब्दाद्भोर्वं प्रतीत्य व्यक्तेर्भिन्नमभिन्नं वेति वादिनाम् । सच्छब्दस्य तु ‘कोऽस्पार्थः’ इति न संशयः; किंतु सत्तख्यमर्थं प्रतीत्य पश्चात् ‘द्रव्यं गुणः कर्म वा’ इतं तदन्तरविशेषे । तस्मानेष साधारणशब्द इति । तदाह-अथवेति । नत्रशब्दात संशयः किंतु अर्थात्थ इति । अत्र हंतु पृच्छति – कुत इति । उत्तरमाह-- विशेष इति । ‘द्रव्यं गुणः कर्म वा ’ इति सत्तायां ये विशेषा वादि विप्रतिपत्तिविषयाः, तत्प्रतीतिं विनापि ‘सन् घटः’ इति घटसत्ताप्रतीति मात्रेणैव प्रतिपत्तेर्नेराकाङ्क्षयात् नात्र शब्दात् संशय इत्यर्थः । नन्वथो येऽपि संशये तद्विशेषाकाङ्क्षास्येव ; अथ कथं नैराकाङ्क्ष्यमित्यत आह K23