यत्रेति तत्रापि साधनविशेषाकाङ्क्षा स्यात् । अन्यथेति; यदि , ततस्त द्विशेषाकाङ्क्षायामनवस्था स्यात्; अतो दूरमपि गत्व यस्य कस्यचि दुपादानानैराकक्ष्येण भवितव्यम्; तद्वरमदावेव तदस्तीति भावः । क अक्षमानय तर्हि साकाङ्क्षत्वमित्यत आह--यत्र विति । यत्र तु ‘' इत्यक्षशब्दादनेकार्थात् ‘कोऽस्यार्थः' इति संशयो भवति, तत्रार्थस्यैवा- नवधारणादप्रवृत्तिरिति भवत्यर्थविशेषाकाङ्क्षा । सच्छब्दात्तु ‘कोऽस्यार्थः इत्याकाङ्क्षा नास्त्येव; अपितु ‘किंखमावोऽस्यार्थः’ इति वैषम्यमिति भावः । -तस्मादित्यर्थः । एवमिति । उपसंहरति--नदिति ; अनन्तरोक्तं युक्तिप्रकारं निर्दिशति । सच्छब्द इत्यध्याहार्यम् । इदानी विशेषणपक्षे दूषयात - विशेषणमिति । । ननु प्रमाणं प्रमातृ धर्मः कथमर्थस्य विशेषणम? अभ्युपगमवादोऽयमित्यदोष । दूषणान्तर माह--अपिचेति । प्रमाणफलादनुभवादतीतमेव प्रमतृव्यापाररूपमनुमीयते; तत्र हतः प्रमाणविशिष्टतार्थस्येत्यर्थः । अत्र हेतुमाह---नेति । अती तत्वेनासंनिहितं प्रमाणाख्यं विशेषणं यस्य स तथोक्तः । • सन् घटः इत्यनुभवसमये प्रमाणस्यातीतत्वान्न तद्विशिष्टः ‘घटः सन्' इति भाया दित्यर्थः । दूषणान्तरमाह--न चेति । चिरनिरवाता निधयो येष्विति बहुव्रीहिः । अयं च प्रमाणाभावनिश्चये हेतुः । व्यधिकरणे वा सप्तम्यौ । सन्ति ’ इत्यत्र निधयः’ इति प्रथमान्तं कृत्वा योज्यम्। उपसंहरति तस्मादिति । सदर्थ इति ; सच्छब्दस्यार्थ इत्यर्थः । इदानीमुपलक्षणमपि प्रमाणं न युक्तमित्याह-नापीति । हेतुमाह प्रमितेति । यतः प्रमितनष्टे तच्छब्दो लोके न प्रयुज्यते, यतश्च ‘अस्ति, नास्ति ’ इति स्मर्यमाणे संदेहोऽस्तीत्यर्थः । नन्वतीतत्वादेव प्रमाणसंबन्धस्य प्रमितनष्टे सच्छब्दप्रयोगसंदेहावुपपत्स्येते इत्याह- वृत्तेति । अतीत मप्युपलक्षणं शब्दप्रवृत्तौ नष्टम् । ततश्चातीतस्यापि प्रमाणत्वोपलक्षणत्वात् सर्वमेव स्यात्, नासच्वम् । स्मर्यमाणे च सचनिश्चय एव स्यात्, न संशय इत्यर्थः । वृत्तः प्रमाणसंबन्धो यस्येति बहुव्रीहिः । ननु मा भवतु प्रमाणमेकमुपलक्षणं वा , प्रमापयेभयत्वमेव तद्भविष्यति ; तथापि सत्ता न
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति