20 बांसव्याख्या ज्ञातं हि साधनम् - अज्ञातं हि साध्यम् । न चैकमेव ज्ञातमज्ञातं च भवति । ननु तवापि ‘अस्येदं व्याप्यम्’ इति ज्ञातसंबन्धमेव लिजेन गम्यत इति दोषोऽस्त्येव ; उच्यते –मम सामान्ययोः संबन्धः, विशेषतक्ष प्रमेति नैष दोषः । बौद्धानां तु न सामान्यमस्तीति विशेषः । शिंशपात्वावृक्षत्वानुमाने निर्लतकार्यसंबन्धताप्यस्तीत्यूह्यम् । किंच क्षणिक- वादिनां कार्यक्षणकाले कारणक्षणमसत्; अतोऽस्य न कार्यविशिष्टता ; अतश्च न कारणस्य सत्ता स्यादित्यभिप्रायेणाह-कार्थेति अथोपलक्षणं । कार्यवत्ता सच्छब्दप्रवृत्तावित्युच्यतें, तदापि न, पूवक्तदोषादित्याह अथेति । उपसंहरति--तस्मादिति । यथा नीलादिशब्दानामयेऽमको यस्य कार्य यस्य वा प्रमाणं स नीलशब्दार्थ इति कार्यप्रमाणलक्ष्यो न भवति, कार्यप्रमाणयोरपि तच्वं कार्यप्रमाणाभ्यां लक्ष्यं तयोरपि तदनन्तराभ्यामित्यनवस्थानात् ; अपितु कार्यप्रमाणसंबन्धनिरपेक्षखहेतुभ्यः खरूपेण व्यवस्थिता यथाप्रमाणमवसीयते--प्रमाणमवबोधकमात्रमिति यावत् तथा सच्छाब्वेऽपीत्यर्थः । यदुक्तमनवस्थानादिति, तद्विवृण्वन् स्वार्थस्य कार्यप्रमाणलक्ष्यत्वाभावं द्रढयति-कार्येति । तस्येति ; व्यवहारविभाग- स्येत्यर्थः । एवं दृढीकृत्य खप पुनरुपसंहरति--तस्मादिति । एवं प्रमाणयोग्यता सच्छाब्दार्थः नैका सत्तेति पक्षे दूषिते, परावृत्य प्रमाणयोग्यत्वसतापक्षे पुनः प्रतीकारमाशङ्कयति--अथेति । । यदि प्रमाण- योग्यत्वमर्थखमाषः सत्ता स्यात्, ततोऽस्त्यर्थनिष्ठेष्वपि वेदान्तेषु प्रमाणा न्तरानपेक्षत्वात् अस्यर्थनिष्ठं सापेक्षमिति पराभिमतं प्रकृतं हीयेत; यदि तु प्रमाणहेतुसंभवस्तद्योग्यता तदा हेतौ सत्यवश्यं प्रमाणेन भाव्यम् ; अत स्तत्सापेक्षत्वात्र प्रकृतहानमिति भावः । न चैवं नृशृङ्गादीनां सच्वप्रसङ्ग इत्याह-न चेति । एतावता च प्रमाणहेतुभावाच्च सव्यवहार इत्युक्तम् । नदीपूराख्यप्रमाणहेतुसद्भावे वृष्टैरतीताया अपि सच्वं स्यादिति यद्यप्यत्र दूषणमस्ति, तथाप्यस्य पूर्वमुक्तत्वादुत्तरविभवाच्च दूषणान्तरमाह--तदिति । भूमौ निखतमितिः भूभागहिरोहितत्वादिन्द्रियसंनिकर्षस्य प्रत्यक्षहेतो रभावमाह निलिङ्गमिति । अनुमानहेतोर्लिङ्गस्य ; अवेद्यनुपपत्रकामिति
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति