21 अर्थापत्तिहेतोरन्यथानुपपन्नस्य; न वेद्यमनुपपन्नं यत्रेति विग्रहः; तथा नष्टद्रष्टुकमिति आप्तागमहेतोराप्तस्य । उपमानस्य च सादृश्यविषयत्वा- तडेतुर्निचिस्वरूपप्रतीतौ दूरापेत एव । तदेवं सर्वेप्रमाणयोग्यतामतिक्रामति निधिद्रव्यम् ; न च तदसत् , अपितु संशयितम् । त्वत्पक्षे चसन स्यात्, न संशयितमित्यर्थः । अथ न प्रमाणहेतुसद्भावः सत्ता ; अपितु अर्थगत एव कश्चित्स्वभावविशेषः प्रमाणं प्रति योग्यः सत्तेच्यतेतदपि न, प्रकृतहानादित्युक्तम् । छोकमन्यथा व्याचष्टे--अथवेति । प्रमाणविशिष्टं सदित्युच्यते । अतः प्रमाणसदसद्भावसंशये प्रमाणविशिष्टाभिघायिमच्छ ब्दानुविद्धः ‘सद्वा, असद्वा’ इति संशयो युज्यते । निघं तु सर्व प्रमाणाभावनिश्चयादसत्स्वनिश्चयः स्यात्, न संशय इत्यर्थः । इतश्च न प्रमाणयोग्यता सत्ता, यतोऽसतेऽप्यमावस्य सास्ति ; अतः सापि न स्यादित्यभिप्रायेणाह--अपिचेति । अमावप्रमेयत्वे केचिद्विप्रति- पन्नाः; तदर्थं तन्मेयत्वमुपपादयति-तथाहीति । चकारो दूषणसमुच्चयार्थः अप्यर्थो वान सदेव, परमसदपि । यथा येन प्रमाणाविषयत्वेन सर्वशक्तिविरहितत्वेन वाभावं परो व्यवस्थापयति, तथा तेन रूपेण प्रमेयम् । कुंतः? यतस्तथा तेन रूपेणामितं चेत् कस्मात्तया तद्पः ? न् पुनरन्यथा अन्यखरूप इत्यर्थः । एतदेव विवृणोति--न चेति । एक- पक्षानुराग इति ; तथाभावातथाभावयोर्मध्ये प्रमाणे विंना एकपक्षानुरागो न युज्यत इत्यर्थः । अभावस्य प्रमेयत्वं हेत्वन्तरमाह--अपिचेति । अमावश्चैन्न प्रमेयः, ततः कण्टकामावममित्वा अपरिच्छिद्य भूतलादौ चरणं न्यस्यते कथम् ? न कण्टकाभावपरिच्छेदाचरणन्यासःअपितु कण्टकादन्यस्य भूतलादेः परिच्छेदादिति चेदत आह-नान्येति । नान्यस्य भूतलादेनूनाचरण न्यासःतस्य कण्ठकस्य मार्केऽप्यन्यस्य भूत छादेर्नाहणे चरणन्यासप्रसङ्गात् भूतलग्रहणात्पुरतादप्यन्यस्य कस्यचिद्रहणसेमवात् तत्र चरणन्यासप्रसङ्गश्च। अथ नान्यग्रहात् किंतु कण्टकसंविच्यभावतश्चरणन्यास इत्युच्यते; तत् सूक्ष्मकण्टकादेरापातेऽप्रहात् पदन्यासः स्यात्, न तु तजिज्ञासा । अत कण्ठादिसंविच्यमावतोऽपि न पादन्यासः । तस्मादभावपरिच्छेदादेव । 19
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति