212 बक्षसिद्धिव्याख्या इत्यर्थः । प्रयतादिति ; निश्चयार्थात् प्रयत्नादित्यर्थः । ‘जिज्ञासापूर्वकात् इत्यादेः ‘युज्यते’ इत्यन्तस्य अपरिच्छेदपक्षे सूक्ष्मजिज्ञासा निष्फला, अभावे तु परिच्छेदी सफलेति सात्पर्यार्थः । न च कण्टकापरिच्छेद एष जिज्ञास्यःतस्य परिच्छेदात् प्राक् खतः सिद्धत्वेन जिज्ञासावैफल्यात् । किंच प्रभेयं जिज्ञास्यम्; अपरिच्छेदश्च परिच्छेदाभावः ; न चाभावस्ते प्रमेयः; अतश्च न जिज्ञास्यत इत्यर्थः । अथ मतम्—न कण्टकाद्यपरिच्छेदमात्रात पदन्यासप्रवृत्तिःअपितु कण्ठद्युपलम्भहेतुषु चक्षुरादिषु सत्सु प्रमाणविषयस्य प्रमाणविषयत। गन्तुं योग्यस्य सूक्ष्मस्य सतोऽपरिच्छेदादिति, तत्राह--तदसंदिति । तदसत्; यंतोऽत्रापरिच्छेदे प्रमाणस्य न कश्चिदुपयोगः दृश्यते, तेन। दृष्टार्थत्वमेव स्यादिति भावः । कुत्र नमैतदुपयुज्यत इत्याह- असदिति। हिशब्दस्तुशब्दार्थे; अभावबोधे तु प्रमाणविषयत्वमुपयुज्यते । कथम् ? अनन्यहेतुत्वेन । कण्ठकद्यपरिच्छेदात्तदभावबोधः । अपरिच्छेदश्च द्विधा भवति-–प्रमाणहेतुवैकल्यहेतुक, कण्टकाद्यर्थाभावहेतुको वा । तत्र यः प्रमाणहेतुवैकल्यहेतुकोऽपरिच्छेदः स न सत्ताभावनिश्चयहेतुःअर्थभावेऽपि तत्संभवत् । यस्तु प्रमाणहेतुष्वविकलेषु सत्खपरिच्छेदःसोऽर्थाभावनिर्भय हेतुरित्येवमुपलम्भहेतुषु सत्सु प्रमाणविषयत्वमभावबोध उपयुज्यत इत्यर्थः । अन्यग्रहणाच्चेत् पादन्यासःकण्टकादेर्भवेऽपि भूतलग्रहणे स्यादि युक्तम् तत्र परमतमाशङ्कयति--अथेति । अथ यत्र भूभागदौ पाद- न्यासप्रवृत्तिः, तत्र भूभागादौ केवलसंवित्तितः सा । अतः सा कण्टकादि- सद्भावे कैवल्याभावान्न भवतीत्युच्यते, तदाह--जिज्ञासेतेति । तत्रेदं निरूप्यम्--किमिदं कैवल्यं भूतलज्ञानस्य भूतलैकावभासित्वलक्षणम् ? उत ज्ञानविषयस्यं मूतलस्य ? यदापि विषयस्य, तदा किं खरूपेण तस्य कैवल्यम् ? उत विशेषणयोगेन ? तत्र वद्याद्यः पक्षः, तदा यत्र कण्ट कादौ सूक्ष्मत्वादभाति भूतलैकविषयं ज्ञानं मवति, तत्र संवितेः कैवल्यात् पादन्याप्तः स्यात् प्रवर्तेतैव तदर्थं वा पुरुषः । न च भूतलादिवेष्यरूप मेव खरूपेण केवलमिष्टम्, कण्टकाद्विमिश्रेऽपि भूतले तद्वरूपम्नपेतमिति पादन्यासप्रसङ्गात् । अथ विशेषणयोगेन, ततः कैवल्यविशिष्टस्य भतळ .
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति