दन्यस्य कण्टकादेरभावादन्यद्विशेषणं न भवतीति कण्टकाभावपरिच्छेदादेव पादन्यास इति प्राप्तमभावस्य प्रमेयत्वमित्यर्थः । एकविषयप्रतिनियम इति एतत् ज्ञानकैवल्यविवरणम् । विषयान्तरासंसर्ग इति च प्रतिनियम- विवरणम्; भूतलैकविषयत्वमित्यर्थः । इतश्चभावः प्रमेय इत्याह-अपिचेति ॥ किं क्षुण्णमिति ; कोऽपराध कांके धाग्रहणमुपलक्षणम्; शब्दोऽपि द्रष्टव्यः धीशब्दविषय एव व्यवहारविषयः, अतस्तन्निरूपणेनैव निरूपित इति वृत्तं पृथडू नोक्तः । अथवा व्यवह्रियतेऽनेनेति व्यवहृतिः शब्दः। श्लोकं विवृणोति आपिचेति । यस्याभावो न प्रमेयः, तेन ‘नास्ति’ इति बुढिशब्दयोर्विषये वाच्यः-किमालम्बनावेताविति । तत्र न तावङ्गतलवस्तु खरूपेणानयोर्विषयः कण्ठकादिमिश्रेऽपि भूतले ‘नास्ति’ इति बुढिशब्दयोः प्रसङ्गात् । नापि केवलभूतलवस्तु तयोर्विषयः; तदा हि कण्टकाद्यभावविषयः स्यात्, अभा वादन्यस्य कैवल्याख्यस्य क्शेिषणस्यासंभवादित्युक्तम्—‘नान्याभावाद्विशे षणम् ’ इति । पर आह-यन्नास्ति निरूपाख्यं, तदेव गम्यत इति विप्रतिषिद्धम् । अतो ‘नास्ति’ इति नामावः प्रतीयते, किंतु ‘नास्ति इति ‘न प्रतीयते ’इत्ययमस्यार्थ इति ; तत्रोच्यते-—प्रतीत्यभावस्तर्हि ‘नास्ति इति श्रीशब्दयोर्विषयः स्यात् ; तया सति च प्रमेयाभावेन किमपराद्धम्? येन तमतिलङ्घय प्रमाणाभावोऽनयोर्वषय उच्यत इत्यर्थः । परमत्तमशङ्कयति--अथेति । कण्टकदः अग्रहे अज्ञाने असब्रह- भ्रान्तिः अभावग्रहणश्रान्तिः, तथा कण्ठकब्यवहाराभावे चाभावव्यवहार भ्रमःन पुनः अभावग्रहणभावव्यवहारों स्त इत्ययः । दृष्टश्चादर्शने दर्शनभ्रम इत्याह--अदृष्टाविति ; यथा आलोकादृष्टौ ‘तमः पश्यामि इति तमोडष्टिविभ्रम इत्यर्थः । नैव स्तां ‘नास्ति’ इति बुद्धिव्यवहारा- विति परेणोक्ते, कथमिति सिद्धान्तिनाम्निाते, उच्यत इति पुनः परेण प्रत्युक्तमिति ग्रन्थो योज्यः । ननु तमोवरस्वेव दृश्यमस्ति, न पुनरालोका भावमात्रमिति दृष्टान्तासिडिमाशङ्कयाह--न हीति । यदि तमो दृश्यमस्ति, ततो रूपवाचाक्षुषं स्यात्; अतोऽन्धेन न दृश्येत ; अस्ति च तस्यापि तदृष्टिः। अतो भ्रम एवेत्यभिप्रायः । तहषयति--नैतदिति । -
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५४७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति