21 मन्तरेण विशिष्टविषयसिद्धिः । अतो वेद विध्यायत्त एव पदार्थसंसर्ग इति विधिराश्रयितव्यः । ननु ‘ सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यत्र विना किधिनमा विशिष्टार्थावगतिरित्यत आह-तदभावे त्विति । संसर्गनिमित्तस्य विधेरभावे तु ‘सत्यं ज्ञानम्’ इत्यादौ पदर्थसंगतेरभावात् विशिष्टार्थाव गतिर्या, सा भ्रान्तिसमानरूपेत्यर्थः । विवक्षितार्थनिष्पत्तय इति ; विवक्षितो यो यावान्विशिष्टः सकारककलापो बलाहरणादिरर्यः, स तावान् कथं नाम लपूः संपाद्यतामित्यर्थः । नैकपदसध्येति ; नैकपदप्रतिपाद्यो नैके त पदेन प्रतिपाद्यः संपूर्णार्थः । सिद्धान्ती तु बहुप्रकारं विकल्प्य दूषयति अत्रेति । यदि प्रमाणान्तरेण श्रोत्रा संसर्गस्थावगमात् प्रमाणान्तराधीनः स उच्यते ; तदसत्, अपूर्वस्यापि प्रमाणान्तरानाधगतस्यापि तस्य संसर्गस्य श्रोत्रा प्रतीतेः । ‘अग्निरुष्णः' त्याविभ्योऽधिगतेऽपि गम्यत ( इति तदपेक्षया अपिशब्दः । अन्यथेति ; प्रमाणान्तरादिगत एव गमकत्व इत्यर्थः । अनधिगतमित्यादिना श्रोतुरनधिगतार्थप्रतीतिमेव द्रढयति । ननु प्रमाणन्तंरगम्येऽर्थे विवक्षा च व्यवस्थिता’ इति पूर्वं विशिष्यैवोकत्वात् कोऽयमनुपालम्भः ? उच्यते--अरिमन्दूषिते तत्र मा संक्रमिष्यतीति तडूषंणपुरःसरमेवायं दूषित इत्यदोषः । अथोच्यते—प्रमाणान्तरेण संसर्ग श्रेत् प्रमीयेत, ततः स्याद्वचनवैयर्यम्; न त्वेवम् ; किंतु संसर्गयोग्यता मात्रं प्रमाणान्तरेण प्रमीयते क्रियाकारकैः ; तानि च तया संसर्गयोग्या नीति ; तेन लोके प्रमाणन्तराधीनसंसर्ग इति । तदयुक्तम्; . वेवेऽपि हि संसर्ग योग्यता प्रमाणान्तराचीनैव ; तथाहि-‘ अरुणयैकहायन्या सोमं क्रीणाति’ इत्यरुणिम्नः करणकारकत्वात् क्रियया संसर्गयोग्यता । तथा साध्यविषयो नियोगः; भावार्थश्न साध्यः ; अतः स एव योग्यत्वान्नियोग विषयः, न द्रव्यगुणौ सिद्धत्वेनायोग्यत्वादिति प्रमाणान्तरावगतयेग्यता सामथ्र्येनैव व्यवस्थाप्यत इति वेदेऽपि प्रमाणाधीन एव संसर्गः स्यात् न विंध्यधीन इति भावः । एवमिमं पहुं दूषयित्वा अधुना पूर्वपक्षोप न्यस्तुं पझं दूषयितुमनुभाषते -अथेति । तडूषयति--एवमिति । ‘ घटेन कूपजलहर' : इति विशिष्टार्थविवक्षा • आहर' इत्यकस्मात पदान प्रतीयते ; ततो हि आहरणक्रिया प्रतीयते, सा च किं केन कृतनैत्य
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५५६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति