प्रवृत्तिः । अथ साधनसामान्ये, इत्यंभावसामान्येऽपि समाना; यत यथा फलार्थी . तदुपायसामान्यमिच्छति, तथा तदनुग्राहकसामान्यमपि ; निरनुग्रहस्य साधनस्यासमर्यत्वात् । अथेत्थंभावविशेषे विधीयते, ततः साधनविशेषोऽपि तथा विधास्यत इति न तत्राप्यर्यलक्षण प्रवृत्तिरित्यर्थः इतश्च फलसाधने विधायकस्य व्यापार इस्याह-—अपेक्षितेति । अप्रवृत्त- प्रवर्तनरूपो विधिः । प्रवृत्तिहेतु धर्मः प्रवर्तना । स च द्विविधः इष्टता, तत्साधनता च । यत इष्टे तत्साधने वा पुरुषः प्रवर्तते, नान्यत्र । तत्रेष्टतायामिष्टफलघर्मभूतायां जानात्येवासौ मयैतत्कर्तव्यम्' इति ; प्रमा णान्तरसिद्धगं लयमेव पुरुषस्य प्रवृत्तिः, नाप्रवृत्तप्रवर्तनात्वम् । अत न सा विधिः । इष्टसाधनता तु यागादेर्न प्रमाणान्तरावसेया; अपितु शब्दैकगम्या । 'तेनेष्टसाधने शब्दादेव प्रवृत्ति, नान्यन इति तस्या एव प्रवृत्तिहेतुत्वम्_ । तेनेष्टसघनतैव शब्दप्रमाणिका सती विचिरिति गीयते । नन्वस्तु , इष्टसाधनं प्रवृत्तिहेतुः, स च विधिः । अनुष्ठानं तु कथं तद्विषयमवगम्यते ? अथान्यविषयमेव कस्मान्न भवति ? इत्यत आह अनुतिष्ठत इतेि । नेष्टसाधनं वायुवद्यस्य कस्यचित्रवृत्तिहेतु, अपितु अनुतिष्ठतः । अनुनिष्ठतश्चानुष्ठेयं सत् इष्टसाचने प्रवृत्तिहेतुः; न वायुवत् खतः सिद्धम् । तेनानुतिष्ठत इष्टसाधनता विधिः । यतश्च अनुतिष्ठतो विधिः, अतः तदिदमनुष्ठानमनुष्ठेयापेक्षमनुष्ठेयभूतेष्टसाधनविषयमेव विधायका लिअदिशब्दादर्थाद्म्यते, नान्यविषयमित्यर्थः । साधनं प्रवृत्तिहेतुरिति घर्मधर्मिणोरभेदादुक्तम् । न च गोदोहनादिना अननुष्ठेयेन व्यभिचारः तद्धि न खरूपेणेष्टसाधनम् अपितु तत्साध्या प्रणयनक्रिया; अत एव तां प्राकरणिकीमपेक्षते, सा चानुष्ठेयैवेत्यव्यभिचारः । नन्वध्यवसायादि लक्षणो विधिरिति विधिविदो विधिमाचक्षते ; तत्कथमिष्टसाधनता विधिरित्या शङ्कयाहतत इति । ‘ममेदं कार्यम्' इत्यध्यवसायो निश्चयः , ततः आकूतः संकल्पविशेषःतत आद्या प्रवृत्तिः, तथा ‘ पचेत् ’ इति कालत्रयापरिच्छिन्नं प्रवृत्तिमात्रम् , तथा प्रमाणान्तरेणाज्ञातो यागादिक्रियाया स्तस्कर्तुश्च संबन्धो ‘यजेत' इत्यस्मादेव गम्यमान इत्ययमध्यवसायादिस्तत एवेष्टसाधनत्वत् भवति; नाकस्मात् कारणं विनेत्यर्थः । एतदुक्तं भवति इष्टसाधनताया एवावगम्याया अध्यवसायादिर्भवति । नैवमेव ; अतः सैव
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति