पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ननु ‘ममेवं कर्तव्यम्’ इति प्रत्ययारप्रवर्तते ; अन्यथा यदि कर्त. व्यावगमान्न प्रवर्तते, ततः प्रमाणभूतात् वेदात् यत्कर्तव्यमवगतं तन्न कृतं स्यात् । न च तद्युक्तम् । न चेष्टसाधनमपि ‘ममेदं कर्तव्यम् ’ इति यावन्न प्रतीयते तावत्तत्र कश्चिमवर्तत । तस्मात्कर्तव्यतावगमादेव प्रवृत्तिः, नेष्टसाधनत्वात् । उच्यते—बाढं कर्तव्यतावगमात्प्रवृत्तिः ; न तु तदुत्पाद् ऽकस्मात्कारणं विना भवति । स हि खार्यमिष्टमस्मादवाप्यत इत्यनेन निमित्तेनेष्टसाधने मवति । ननु न ब्रूमोऽकस्माद्भवतीति ; किंतु शब्दादेव कर्तव्यताबुद्धिर्मवाति ; तत्रोच्यते--नाभिधानत इति । न हि लिवादि शब्दात्कर्तव्यताबुद्धिः; यतो नियोगः शब्दार्यस्त्वयेष्टः। स च प्रेषणादि रूपो नियोक्तृधर्मो वा स्यात् । यद्वा न नियोक्तृधर्मः; किंतु स्वतन्त्र एव, फलनिष्पत्तेः; अते विनाश् च । कर्तव्यता क्रियमाणभावाख्यविषय- घम न नियोक्तृधर्मः ; न च स्वतन्त्रः । अतो न तद्वद्धिरमिघानतः । अथ नियोगो विषयधर्म उच्यते, ततो विषयस्येष्टसाधनत्वादन्यस्य धर्मस्या भावादिष्टसाधनतैव नियोग इत्यापन्नम् । अय न शब्दात्कर्तव्यताबुद्धिः, अपितु नियोगादित्युच्यते ; तयापि न तावत्तस्यां शब्दः प्रमाणम्, तस्य नियोगाभिधायकत्वात् । न च नियोगानुपपया अर्थात्कर्तव्यताबुद्धिः, अकर्त. व्येऽप्यनाप्तनियोगदगत् । अथ मतम् -सा कर्तव्यताविषयस्य मोक्षस्य धर्म उच्यते, ततो विषयमोक्षसाधनत्वाद्विधानमापन्नमिति ; ततो मिनं मोक्ष मन्वानः परः प्रत्यवतिष्ठते--स्यादेतदिति । अद्वयात्मज्ञानस्य मोक्षसाधनत्वं भूतिमि- रुपपादयति--भूयत इति । अनुविद्य विजानातीति; शब्दात्प्रथमं विदित्व पश्चाद्विशेषेणापरोक्षतया जानातीत्यर्थः । ननु मोक्षस्य साधनसाध्यत्वे घट वदनित्यत्वं स्यात् , अतश्च मुक्तस्य पुनरावृत्तिः स्यादित्यामङ्कयाह न चेति । हेतुमाह--शब्देति । शब्दमाह--न चेति । ननु साध्यत्वा न्मोक्षस्य घटवदन्तवत्वं तर्केण प्राप्नोति ; अतः कथमपुनरावृत्तिरित्या- शङ्कयाह--न हीति । न खल्वस्नीषोमीयाविहिंसा शब्दावगतधर्मत, बाड- हिंसावत् ; हिंसात्वादर्धर्म इति तर्केणाधमं भवतीति भावः । नित्यात्म- खभावंभूतां विद्यमभिप्रेत्य परिहारान्तरमाह-अनन्तेति । क्षणिकज्ञानवादि 18A