248 ब्रह्मसांडव्याख्या ९ ४ जीवस्य विद्यमानब्रह्मरूपाविभवमेव मोक्षमाह-अन्यथा “ बलैव सन्” इति न घटते । एवं मोक्षस्वरूपं निरूप्य ‘साध्यो मोक्ष न चापरः’ इति श्लोकार्थ 19 मुपपादयन् व्याचष्टे-तदेवमिति । न चेति नकारः काकाक्षिवत् ‘न साध्यः' 'न चापरः’ इत्युभाभ्यां संबध्यते । ‘न साध्यः ’ इत्यत्र पूवों वा वर्तते । यदा ‘न च' इत्यस्य साध्य इत्यनेन संबन्धः । अपर इति चान्यो न भवतीत्यर्थः । क्वचित्तु “ न नापरः' इति पाठः; तत्र न साध्यो नापर इत्यर्थः । न चान्यत्वमिति ; विद्यतो मोक्षस्य नायस्व- मित्यर्थः । एतच्च ‘नापरः’ इत्यस्य व्याख्यानम् । अनन्यत्वे हेतुमाह यत इति । यतो ब्रह्मस्वरूपभूतनित्यविद्याविर्भाव एव मोक्षःअतो न विद्यातोऽन्यः । अन्यच्च साध्यं भवति । अतो न विद्यासाध्य इती प्रकृतापयगः । 4A 3 यद्यपि अविद्यास्तमयो मोक्षः’ इत्युक्तं श्लोके, तथापि विचेव विद्यास्तमय इति वक्ष्यमाणत्वात् वृत्त विद्याधिगम मुक्तिरुतत्यदोषः ! अविद्यविगम ’ इति पाठे त्वविरोध एव । उक्तेनेति ; स्फटिकन्यायेन, ‘अद्वयामप्रकाशोऽसौ’ इति वानेनोक्तेनेत्यर्थः । अद्वयात्मप्रकाशरूपाया विद्यया मोक्षस्वमुपपादयति--अविधेति । अविद्यानिवृत्तावपि मोक्षे ‘संसार- निवृत्तिमोक्षः’ इती प्रसिडेर्न दोष इति । ननु तथाप्यविद्यानिवृत्तिमोक्षः न विधेयाशङ्कयाह-विधैवेति । अग्रहरूपा वा अविद्य, विपर्ययज्ञान रूपा वा; तत्र यदि तावदग्रहणमविद्या, ततो विंचैव तन्निवृत्तिः, यत्तु ऽग्रहणप्रागभावो ग्रहणम् । तस्य ग्रहणभाव एव निवृत्तःनान्या; घट प्रागभावस्येव घटभावः । अथ विपर्ययज्ञानमविद्या, तथापि तद्विरोधि- तत्वज्ञानोदय एव तन्निवृत्तिरित्यर्थः । एतत् दृष्टान्तेनोपपादयतिः न हीति । तत्र शुक्तिज्ञानासाध्यत्वे हेतुमाह--तयोरिति । यदि शुक्ति- ज्ञानेन रजतज्ञाननिवृत्तिः सध्या, . तत्र शुक्तिज्ञानरजतज्ञाननिवृच्योरयौग- पञ्च स्यात् ; न च तदस्तीत्यर्थः। प्रयनन्तरासाध्यत्वे हेतुमाह--प्रयत्नान्तर इति । न हि रजतज्ञाननिवृत्तये शुक्तिज्ञानोवयात् पृथकू प्रयतत इत्यर्थः।।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति