नियमकाण्ड: 251 न च दूरस्थम् । अतः किं तत्र गत्या, येन सार्थादाक्षिप्यंत ? किंच अत्रैव समवनीयन्ते" इति च तत्रैव देशे प्राणानां प्रलयमभिवदन्ती श्रुतिः विदुषोऽनुत्क्रान्ति सूचयति । अत्रेति ब्रह्मोच्यते, न देशविशेष इति चेत् ; महाभिज्ञो भवान् शब्दवृत्तस्य ! न हि “ राजा न गतः, अत्रैव तिष्ठति’ इत्युक्ते यतो न गतः, ततो देशादन्यत् ‘ अत्र’ इत्यु च्यते । तस्माद्विदुषे ब्रह्मप्राप्यर्था नौकान्तिरिति व्यर्था मार्गश्रुनयः पर- प्रकरणेऽपि पठिताः। यत्रार्यवस्यः, तत्र पूषानुमन्त्रणमन्त्रवत् दुष्यन्त इत्यलं प्रपञ्चन । किंविषया नाम ता मार्गश्रुतयः? इत्यपेक्षमयामाह--यत्र त्विति । सगुणविघविषयास्ता इत्यर्थः । न च निर्गुणविद्यान्यायेन तत्रापि तासाम- नुपयोग इत्यभिप्रायेणाह-तत्र चेति । परब्रह्म हि जीवस्य निजं रूपम्, तच्च नित्यप्राप्तमेव सदविद्यया करस्थमुवर्णवदप्राप्तं विद्यया अविद्यानिवृत्त तत्रैव सुलभमिति न गतिमपेक्षते ; तेन युक्तस्तत्र मार्ग श्रुतीनामनुपयोगः । कायेनझलांकः पुनः इतस्तृतीयस्यां दिवि तिष्ठति ; तेन स दूरस्थः तत्प्राप्तये प्रामवत् गतिमपेक्षत इति तत्र मार्गश्रुतय उपयुज्यन्त इत्यर्थः । कार्यब्रह्मलोकास्तित्वं शीतत्वेन दर्शयति --यत्रेति । कार्यं च ब्रह्मलोकं येऽपि न परब्रह्मविदस्तेऽपि यान्ति । अत्र श्रद्धासत्यतषसमुपासकानां कार्यब्रह्मलोक श्रुत्या द्रढयति- तथा चेति । ननु सगुणोपासकानामपि बलप्राप्तिरेव किं न स्यादित्याशङ्कयाह –परेति । अत्र हेतुमाह-विद्ययेति । मृत्युमत्येतीत्यन्वयः । ननु सगुणोपासकानां कार्यब्रह्मलोकप्राप्तिश्चेत्, ततसस्य महाप्रलये नाशात् तेषां पुनरावृच्या भाव्यम् ; अथ कथम् “ इमं मनवमावते नावर्तन्ते’ इत्यनावृत्तिश्रुतिरिति पृच्छति-अपुनरावृत्तीति । अत्र मत- भेदेनोत्तरमाह--अत्रेति । तत्प्रपञ्चयति---तदिति ; कार्यब्रह्मलोकस्थानं !निर्दिशति ; तत् कार्यब्रह्मलोके स्थानं प्राप्य तत्रोत्पन्नसर्वोपाधिनिर्मुक्तब्रह्म तस्वविज्ञाना महाप्रलये प्रान्ते क्रमेण परं पदमश्नुवते इति तेषामपि पुनरा- वृयभावात् अपुनरावृत्तिश्रुत्युपपत्तिः । अत्र वाक्यं पठति---यथेति । वेदान्तविज्ञानेन सुनिश्चिनोऽर्थो येषां ते तथोक्त , उत्पन्नवाक्यार्थमात्रज्ञानाः
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५८६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति