हि निर्गुणविद्यानिमित्त इत्यर्थः । कथं पुनस्तत्रापि क्वचिदपुनरावृत्तिस्मृति- रित्याशङ्कयाह –यदपीति । द्वयी गतिरिति ; क्रममुक्त्यभिप्रायं वा वर्तमान सर्गानावयभिप्रायं वा अनावृत्तिश्रवणं व्याख्यातमित्यर्थ । ऐश्वर्यश्रनिषु मतान्तरमाह--अन्य इति । यतो ब्रह्म सर्वात्मकं, सर्वेश्वरं, सर्वोपभोगनां च भोक्तुं, स वेज्ञ, देवाद्यनन्दाश्च ब्रह्मानन्दस्य मात्रा, अतो यत्किचिदीश्वरत्वादि ब्रह्मादिस्थावरान्तेषु भूतेषु तत्सर्वं बक्षणि, यच्च ब्रह्मणि तस्सर्वमाविधृतब्रह्मखरूपो विद्वान् ब्रह्मणः सर्वगत्वात् आमोति, तेन “ सर्वान्कामानानोति ” इत्यादि तस्य स्वरूपाविर्भावलक्षणमोक्षप्रशंसार्थ- मुच्यत इत्यर्थः । ननु यद्याविभूतनम्नस्वरूपो विद्वान् सर्वात्मवत्सर्वकामा नानोति, ततः सर्वात्मत्वादेव सर्वभूतगतशोकाद्यवाप्नुयात्; ततश्च मोक्षे दःखमपि स्यादित्यभिप्रायेण चोदयति---नन्विति । परिहरति-नेति । ब्रह्मणो रूपं विद्वानामति ; शोकादयस्तु न ब्रह्मणो रूपमित्यर्थः । अत्र हेतुमाह--अविवेति । ज्ञानैश्वर्यादयश्च ब्रह्मणो रूपम्; तेन ब्रह्मप्राप्तौ प्राप्यत इति युक्तमित्याह--ज्ञानेति । कुतः पुनर्लनादीनां ब्रह्मरूपत्वं गम्यत इत्याह--विज्ञानमिति । नान्योऽतोऽस्ति द्रष्टा " इति च ज्ञानरूपत्वे, "एतस्य' इत्यानन्दात्मत्वे, “ सर्वस्येशानः " इति चैश्वर्या- त्मस्वे श्रुतिरिति विवेकः । तदेवं शोकादीनामविद्यध्यस्तत् ज्ञानादीनां च ब्रह्मरूपत्वात् युक्त यदाविर्जुनब्रक्षस्वरूपो विद्वान् ज्ञानादीनश्नुते, , न शोकादीनित्याह--तथाचेति । अत्र चोदयनिघ्नन्विति । तत्परिहरति- नैतदिति । दृष्टान्तौ विवृणोति--सिद्धेनेति । ननु प्रकाश्यानधीनेऽपि प्रकाशरूपे ब्रह्मणोऽद्वयवादसति सर्वस्मिन् कथं सर्वज्ञत्वमित्याशङ्कयाह तथाचेतेि । तथाच सति प्रकाश्यानपेक्षे ब्रह्मणः प्रकाशरूपत्वे सति, तवतः सर्वाभावेऽपि अविद्यावस्थायां सर्वस्य प्रपञ्चस्य तस्य भासा " इत्यादिश्रुतिसिद्धात्मचैतन्येनवभासवत् आत्मनः सर्वज्ञत्वमित्यर्थः । एवः मद्वये ब्रह्मणि सर्वाभावे सर्वेश्वरस्वानुपपत्तिमाशङ्कच तदुपपादयति- सर्वेति । अत्राप्यविद्यावस्थायामेव व्रजेन्द्रादीनामीश्वराणां यथायथं स्वेषु वेष्वीशितव्येषु यदैश्वर्यं तत्सर्वं ब्रह्मणः सर्वात्मत्वात् तदैश्वर्येणैवेति तस्य सर्वेश्वरत्वमित्यर्थः । “ एष भूताधिपतिः इत्यादावपि एषेव योजनेत्याह
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति