नेयांगण्डः । एवमिति । तत्राप्यविद्यावस्थायामेव भूतेषु लोकेषु च ब्रसेन्द्रादीनां यदै- श्वर्यं तत् कर्मोपासनविशेषेण परमेश्वरस्यैव सर्वात्मना तेष्ववच्छिन्नमभि व्यक्तम् । तेनेन्द्रादीनां यदैश्वर्य तत् “ एष भूताधिपतिः ” इत्यादिना परमेश्वरस्योक्तमित्यर्थः । एवमाविभूताद्वयब्रसस्वरूपं प्रति सर्वस्य स्वर्गादेः कामस्याभावात् सर्वकामावातिश्रुतेरनु पन्नवमशङ्कय नामप्युपपादयति – सर्वेति । अत्राप्यविद्याभमावेव कर्मणो यान्यान्कामानवाप्नुवन्ति तेषु तेषु य आनन्दः, ते "एतस्यैवानन्दस्यान्यानि । भूतानि मात्रामुपके जीवन्ति ’ इति श्रुतेः ब्रह्मानन्द एव । अनश्च ब्रह्म प्राप्तो विद्वान् तसर्वा नन्दानाप्नोतीति ५+ सर्वान्कामानवाप्नोति ” इत्युच्यते । न तु स्वरूपेणैव सर्वकामानवाप्नोतीत्यर्थः । एतामेव योजनां श्रुत्यन्तरेऽप्यतिदिशति एवमिति । अत्र दृष्टान्तमाह--यथेति । दृष्टान्तासिद्धिमाशङ्कच तरसाप यति--न हीति । द्वितीयेन हि ीडा मिथुनीभावश्च भवति । न चाद्वयं ब्रह्म प्राप्तस्य द्वितीयमस्ति । तेनात्र यथा मिथुनीभावानन्दनाप्या आत्ममिथुनः" इत्युक्तम्, तथा “ रममाणः स्त्रीभिः " इत्याद्यपि यथोक्त न्यायेन तदानन्दप्राप्त्योमित्यर्थः । बझण एव यानि ज्ञानादीन्यनव- च्छिन्नानि तान्येव कल्पितावच्छेदानि भूतेषु, नान्यानीतीममर्थं गीतया द्रक्ष्यति--यतश्चेति । यत एव ब्रह्मण एव ज्ञानानन्दादीनि यान्यनव- च्छिन्नानि तान्येवावच्छिन्नानि सर्वभूतेषु । अत एव यत्र यत्र भूतेषु ज्ञानादीनां नात्यन्तमवच्छेदः अल्पीभावः , तानि व्यासादिभूतानि ज्ञाना- दीनां समुत्कर्षात् भगवतः प्रत्यासन्नानि, भगवान् “ मुनीनामप्यहं व्यासः” इत्यात्मत्वेनोक्त्वा मुनीनाम्" इत्यादि यदुक्तं तत् “ यद्यद्विभूतिमत्त- स्वम् ” इत्युपसंजहारेत्यर्थः । परमात्मज्ञानमेवानवच्छिन्नं सत् दर्शनादि व्यवहारहेतुरिति गम्यत इति ज्ञानं प्रति विशेषेणाह-तथेति सर्वभूतदर्शनश्रवणादनां परमात्मज्ञाननिबन्धनत्वम् “ अदृष्टं द्रष्टु” इत्या दिषु श्रुतमित्यर्थः । 5 तया एवं सर्वज्ञत्वादिकमुपपाद्य तत्र मतान्तरमाह--अन्य इति । नामरूपे शब्दार्थाबाश्रयौ यस्य स तयोक्तः । ध्यानमेवाध्यानम् । तत्र दृष्टान्त । माह--तदुपपादयति--न हीति । खमहिमप्रतिष्ठस्येति । आषाराः यथेति ।
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९२
एतत् पृष्ठम् अपरिष्कृतम् अस्ति