इतरे तु आरब्धकार्यं तदवधेर्मुक्तेर्देहपातावधिश्रुते मेंगेन क्षपयित्वा ब्रह्म संपद्यत इति सूत्रार्थः । यस्य तु कर्मफलव्यवहारं दृष्टेनैव विद्योच्छिनत्ति, तस्य । विद्यया सर्वाविद्योच्छित्तावविशेषेण सर्वकमच्छेदादनन्तरमेव मुच्येत; अतश्च देह- पातावधिश्रुतिबाध्येतेत्याह -विद्ययेति । तत्परिहरति---नैष इति । एष देहपतावधिश्रुतिबाधदोषो नास्तीत्यर्थः । तत्र हेतुमाह--न हीति । यदीयं श्रुतिर्देहपातावधिं चिरकालताविशिष्टत्वं च मुक्तेबूयात् , ततः स्यादेष दोषः न वेदस्तीत्यर्थः । किं नामाहेत्यपेक्षायामाह—किं त्विति । अत्र दृष्टान्तः माह---यथेति । यथा कश्चित् ‘क्षिप्रतरं गच्छ’ इति नियुक्तः क्षिप्रतरस्वं प्रतिपादयन्नाह -‘ तावदेव मे चिरं यत् स्नाते भुञ्जानस्य उपानहौ वा क्रम माणस्याधं वारोहतः’ इति, तथेयमपीत्यर्थः । यदि तु चिरत्वमात्रं श्रुतौ । ( विवक्षितं स्यात् ततश्चिरामित्येव ब्रूयात्, न तु तावदेवेत्यवधिविशेषम् । देहपातावधिं तु दर्शयन्याः श्रुतेरयमभिप्रायः--यदविद्याजेन देहेन विषया अविद्यानिवृत्तवनन्तरमेव पतितव्यम् , अतः क्षिप्रमेव मुक्तिरिति । एवं कैप्यूपरता श्रुतेर्लक्ष्यत इत्याह--अन्यथेति । उपसंहरति--अत इति । न प्रतीक्षणीयमिति ; भोगेनारब्धकर्मक्षपणं न प्रतीक्षणीयमित्यर्थः । यदा चानन्तरमेव मुक्तिः, तदा देहपातमन्तरेण तदसंभवान्नान्तरीयकत्वाद्देहपातो. ऽप्यनन्तरं भवत्येवेत्याह-देहेति । अस्यास्तावच्छुतेरर्थान्तरमाह--अथवेति । उभयविधौ दोषमाह अन्यथेति । तदेवं सति यः श्रुतेरर्थः संपद्यते तमाह--तत्रेति । अन्यतः प्राप्त कस्यचिन्मुक्तश्चिरत्वमनूद्य देहविमोक्षणमवधीर्विधीयत इत्यर्थः । तत्र पूर्वस्मिन् श्रुत्यर्थं चोदयति-नन्विति । विद्योदयानन्तरं मुक्तौ स्थितः प्राज्ञः पतितदेहत्क्षमस्त्येव ; कस्य लक्षणमुच्यते ? इत्यर्थः । द्वितीयेऽपि श्रुत्यर्थं चोदयति --द्वितीयेऽपीति । विद्यतः सर्वकर्मक्षये कर्मजस्य शरीरस्यानन्तरमेव पातान कस्याचिन्मुक्तेश्चिरत्वमस्ति ; अतो न तदनुवादेनावधिविशेषविधानमुपपद्यत इत्यर्थः । तत्रचै चोर्चे तावत्परि इति उच्यत इति । विगलितायां निखिलायामविद्यायां सिद्धःविगलिंत'
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति