262 ब्रह्मसिद्धिव्याख्या एतच्च न भयविगमेऽ वेत्यत्र चक्रभ्रमणसंस्कारो दृष्टान्तः । सर्वं ‘ च स्वयं ध्यनुवृत्तिरित्यतावता चिरकाला भवति' इत्येतदुपयोगिनयोक्तम् । तत्कथं वेत्यत्र क्रमेणेत्यनुवर्तते । ननु क्षणिकस्य सहतुका नाशे दृष्टः; खयमित्युच्यते ; चक्रसंस्कारोऽपि फलविनाश्येव । अथ करभूभागादि- - स्पर्शवद्रव्यसंयोगाद्वा नश्यतीत्यसिद्ध । उच्यते—को वा ते दृष्टान्तः सहेतुक इति ? काल एव हेतुर्भविष्यति; अत एव क्रमेणेत्युक्तम् _ । £ष्टं च स्तकदोषादिविनशकस्वम् कालस्यापि । तथेहापि भविष्यति । कथं ताहे वयमित्युक्तम् _ ? प्रयत्नान्तरानपेक्षमात्रविवक्षयोक्तमियदोषः । एवं दृष्टान्तं प्रसाध्य दाटोन्तिके योजयति--तथेति । कर्मसु चारब्धकार्ये- ष्वनारब्धकार्येष्वित्यत्र निवृत्तायाम्’ इति लिङ्गवचनव्यत्ययेन निवृत्तेषु ' इति कृत्वा योज्यम् । रूढाभिनिवेश इति ; रूढः प्रादुर्भूतोऽभिनिवेशः आस्थानिशयो यस्येति विग्रहः । तेनायमर्थः—विद्यया अविद्यायां कर्मसु चाविशेषादारब्धानारब्धकार्येषु निवृत्तेपु आरब्धो भुज्यमानो विपाक प्रारब्धकार्यस्य कर्मणः फलं तसंस्कारात् विद्वानपे शरीरिणं भोक्तारं चचास्मानमाभासमात्रेण आस्थाविंकलं प्रत्येति । न त्वविद्यानिवास्थातिशयो- पेतमिति । एतदुक्तं भवति-यप्रारब्धफलं कर्म, तस्मिन्नितेऽपि तत्फले भुज्यमाने यः शरीरित्वादिसंस्कार उद्धृतः, तेनोत्तरकालमपि शरीरिणं भोक्तारमिव इत । अत्रान्तरे विवक्षितमर्थमसमाप्यैव चमानं मन्यत स्थितप्रज्ञलक्षणाभिधानपपत्तये स्थितप्रज्ञ खरूपं तावदाह-स चायमिति । पूर्वं साधकः स्थितप्रज्ञ उक्तः, अधुना सिद्ध एवेति धिशेषः । तस्य च प्रजहाति यदा कामान्’ ‘आत्मन्थवात्मना तुष्टः ” दःखेष्वनु डिग्रमनाः इत्यादिलक्षणं संपादयितुमाह-विगतेति । अत्र दृष्टान्तमाह-यथेति । उक्तमर्थं दार्थन्तिके योजयति--तथेति। क्षण। कर्मछता अविद्य यस्य, क्षणेि वा कर्मावर्ते यस्येति विग्रहः । तत्संस्करादिति तच्छब्देन कर्म परामृश्यते ; द्वितीयेऽपि विग्रहं कर्माविवे विद्यासंस्कारोऽपि सूचित इति भन्तव्यम् । छायामात्रेणेत्यभिनिवेश वैकल्यं दर्शयति । विदुषः शरीरादिष्विदमभिनिवेशवैकल्यं श्रुत्या द्रढयति--तथा चेति । अहिनिश्र्वयनी अहेवक , सा यथा प्रत्यस्ता
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति