नियोगकाण्डः 28B प्रतिक्षिप्त त्यक्ता सती अहंमानशून्यतया सा विकला शेत इव, नथा विदुषः संस्कारमात्रानुवर्ति शरीरमित्यर्थः । किमिति पुनः कमैव शरीरे संस्कारवर्तिन्यप्यास्था न स्यादित्याशङ्कयाह--यत इति । अतुल्यस्त्रं च दर्शितं भयसंस्कारे । इदानीं संस्काराचे झोक्रादिविभागदर्शनमनुवर्तते, देहपातादुत्तरकालेऽप्यनुवर्तेतेति यदुक्तं तत्परिहरति--कृपादीति । अत्र हेतुमाह -- अल्पेति । ननु संस्कारश्चेदनुवर्तते तन्निवृत्तये हेत्वन्तरमुपास्यम्, न च । विदुषस्तदस्तीत्याशङ्कयाह--तद्वदेवेति । “ तत्र तस्यंत्र “ इति सप्तमीसमर्थाद्वतिः । तत्र कम्पादौ यया संस्कारनिवृत्तये न हेत्वन्तर मपेक्ष्यते, तथात्रापीत्यर्थः । इदानीमनेनैव प्रसड्रेन जीवन्मुक्तिमपि दर्शयति--सा चेति । सेस्कारक्षयः कथमवगम्यत इते चेत् अत आह-प्रारव्धतिं । ननु क्वचिद्भज्यमानविपाकसंस्कार इत्युच्यते, क्वचित्कर्मसंस्कार इति ; किमिदं विप्लुताभिधानम् ! न विप्लुतम् , पक्षद्वयस्यापि विकल्पेनेष्टत्वात्; तथा च वक्ष्यति-लब्धवृत्तिकारणसंस्काराद्वा कार्यशेषः, कार्यसंस्काराद्देव बेति । यद्वा तत्रापि भुज्यमानो विपाको यस्य सः, तथा प्रारब्धो विपाको यस्येति च बहुत्रीहिणा प्रारब्धकार्यं कर्मेवोच्यत इत्यविरोधः । कथमित्याह--तदिति । तदैव देहपाते प्रारब्धकार्यकर्मसंस्कारस्य क्षीण त्वात तन्निमित्तस्य कर्मफलस्य विपाकभासमात्रेणापि देहपातोत्तरकाले दर्शनं न शक्यत इत्याह--इतीति । इतिशब्द हेवर्यः काकाक्षिवदमयत्र संबध्यते । प्रारब्धकार्यकर्मसंस्कारक्षये लिङ्गमुक्तम् । उपपत्तिरुच्यते-येन हीति । येन कर्मणा यच्छरीरमारब्धम्, तत्रैव तत्फलं ददाति, नान्यत्र । यत्र च तत्फलं ददाततत्रैव सस्कारदपि तत्फलश्याभासता युक्तेत्ययेः । ननु यथा निवृत्तेऽप्यारब्धफले कर्मणि तसंस्कारोऽनुवर्तते, तथा अनारब्ध फलानामपि कर्मणां संस्कारः कस्मान्ननुवर्तते ! तदनुवृत्तौ च दीर्घः संस्कारः स्यात्; अतः स एव देहपातावधश्रुविराध इत्याशङ्कन्याह- अनारब्धेति । अत्र हेतुमाह-लब्धेति ; लब्धा कार्याय वृत्तिर्यापारो येन तत् तथोक्तम् । एतत् दृष्टान्तेन सNधयति -न रवत्विति । अलब्धवृत्त अत एवानुपजनितकपादौ इति हेतुहेतुमद्भावः । न लब्धा वृत्तिर्येन,
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/५९८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति