पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

274 ब्रह्मसिद्धिव्याख्या दोषाणामदृष्टत्वाच्च न विपर्ययः ’ इति । तत्र यदि स्मृतिः खविषयं स्वयं न विविनक्ति, तत एकां कोटिं स्मरतस्तद्विपर्ययः स्यात् ; न चैवम् । अतः वज्ञानादेव स्मृतं विविच्यते न दृश्यमानस्य विशेषपरिज्ञानात् । सामान्य मात्रदर्शनसमये तस्याभावात् । अतश्च स्मृतैः खभावेन स्मृतविवेकत्वात् कुतः स्मर्यमाणगृह्यमाणयोः विवेकाभावःयेन विवेकाख्यतिीम उच्यते । किंच यदि स्मर्यमाणगृह्यमाणयोरविवेको श्रमः, तदा शशिनि प्रागूढं प्रसिद्धमेकत्वं स्मरते द्वित्वं । चास्मरतः तिमिरादिदोषेण योऽर्च द्वित्वभ्रमो दृश्यते स न स्यात, स्मर्यमाणस्य विवेकाग्रहासंभवात् । तिमिरादिदोषादिन्द्रियवृत्तिर्दधा भिन्नभिन्ने ज्ञाने जनयति; तेन ज्ञानभेदा विवेकात् ’ इन्द्रियवृत्तिभेदाविवेकाद्वा चन्द्रे भेदभ्रम इति । चेत् , तन्न; तत्राविवेकयोर्शनेन्द्रियवृस्योरनुमेयत्वेनाप्रत्यक्षत्वात् । नापिं स्मर्यमाणात् तयोरस्मरणात् । नन्वनुमानेन गृह्यमाणात् ज्ञानात् इन्द्रियवृत्तेवी विवेंका- ग्रहो भविष्यति । नैवम् । उत्पन्ने द्विचन्द्रानुभवे पश्चादनुमानम् _ । अतो न तेन गृह्यमाणाभ्यामिन्द्रियज्ञानवृत्तिभ्यामाविवेकात् द्विचन्द्रभ्रमसंभवः । तच्चानुमानज्ञानाभिप्रायेणोक्तम् _ । अनुभवस्तु यद्यपि प्रत्यक्षः , तथापि तस्यानाक्षरस्य स्वयमनवगतर्फदस्यार्थभेदादेव भेदाघगमा तवार्थभेदश्रम इति सूक्तम्—‘ ते कथं द्विचन्द्रश्रमः ? ' इति । किंच यदि कश्चित्सलिलं पातु- मिच्छन् तद्भजने शुक्ताववहितचेता भवति, तदा रजतस्यास्मरणात रजत- अमो न भवेत् ; भवति च सोऽपि कदाचित् ! भवन् वा भ्रमः सलिल. स्मृतेस्तस्याधापि खार्थाविवेचकत्वात् सलिल एव भवेदित्यर्थः । फिंच यदि शुक्तिसादृश्यदर्शनाद्रजते स्मृतिः, सा च त्रिवेकाग्रहैड्रम इत्येवं सादृश्यनिबन्धनभ्रान्तिरिष्यते, ततः श्वेतपीतयोः तिक्तमधुरयोश्च सादृश्याभावात् श्वेतपीतभ्रमो न स्यात्; अस्ति चासै । तस्मान्न सर्वथा भ्रान्तिर्नियोगेन नियमेन सादृश्यानिबन्धना । अर्थच्यते-न सर्वत्रैव स्मृतिंप्रामाण्येनस्माकं भ्रमोऽभिमत, येन सर्वत्र सादृश्यनिबन्धनः स स्यात्; अपितु गृह्यमाणदिवेकाग्रहादपि क्वचिद्भवति । तेनान्तरं नेत्रगतं पित्तं पीतं संवेद्यते, रसनागतं च पित्त तिक्तम्, न तु स्मर्यते ; तद- विवेकाच भ्रम इति । तथाहि - अप्स्ववौष्ण्यं द्रव्यरहितः पीतिमा तैक्यं