पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६११

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 वक्षसिद्धिव्याख्या नियमो न स्यादिति ‘असंनिधानाबोषाच्चेत् प्रवृत्तिनियमः कुतः’ इत्यतो क्तम् । यदि च स्मृतं सर्वात्मना न स्मृतम्, शुक्तिरपि सर्वात्मना न गृहीतेत्येतावन्मात्रेण मिथ्यात्वं स्यात्, ततः सर्वाण्येव ज्ञानानि मिथ्या स्युः । न हि कश्चिदर्यः केनचित् ज्ञानेन सर्वात्मना गृह्यते । किंच यदि विवेकाग्रहणमात्रं भ्रमः स्यात्, तदा आप्तवाक्यनुमानादिना प्रमाणा न्तरेण च ‘एकश्चन्द्रो ननेकःप्राचीयं दिलू नदीची ’ इति ज्ञात विवेकस्य पुंसो द्विचन्द्रदिव्योहादिविपर्ययान् अनुवृत्तिमतोंऽनुवर्तमानान् पश्यन् स्वस्थात्मा खस्थान्तःकरणः कोऽपहृते ? सत्यपि विवेके द्विचन्द्रदि अमोऽनुवर्तते । तस्मान्न विवेकाग्रहणं अम इत्युक्तं भवति । इतथाख्यातिपक्षो दुर्घट इत्याह-प्रसक्तेति । यदि शुक्तौ ‘रजतम्’ इति ज्ञानं स्यात् , ततस्तेन रजतस्य प्राप्तैौ सत्यां प्रसक्तप्रतिषेधात्मा प्रसक्तप्रतिषेधरूपा ‘नेदं रजतम्’ इति ख्यातिज्ञानं प्रकल्पते घटते । न स्मृतदृषयोर्विवेकाग्रहमत्रे भ्रमः । यतः प्राप्तः प्रतिषिध्यते । न चावि वेकाप्रहः प्रापकः, स हि विवकग्रहणाभावः न चाभावः प्रापकः अभावत्वादेव । किं नाम प्रापकमित्यपेक्षायामाह-प्रापिकेति । शुकि रजततया रजतं वा पुरोवर्तितया या दर्शयति सा विपरीतार्था धीः प्रापिका। ननु विवेकाग्रहणपक्षेऽपि रजतस्मृतिः रजतस्य नयनसंयुक्ते वस्तुनि ‘इदम्' इति ज्ञानं पुरोवार्तनः प्रापकमस्येव ; अतस्ताभ्यां प्राप्तियोः रजतेदमंशयोः रथं प्रतिषेधो भविष्यतीत्याशङ्कयाह--ये चेति । रजते नयनसंयुक्ते च शुक्तिवस्तुनि स्मृतिगृहीतिरूपे ख्याती ज्ञाने, ताभ्यामुपनीतस्यार्थस्य नायं । ‘नेदं रजतम्’ इति प्रतिषेधोऽवगभ्यते । अपितु शुक्तौ रजतत्वस्य, रजतस्य वा पुरोवर्तित्वस्यैव प्रतिषेधः । न चाप्राप्तस्यासौ संभवति । न चाग्रहणममाघवात्प्रापकम् । तस्माच्छुक्तौ रजतत्वस्य रजतस्य वा पुरोवर्ति त्वस्य प्रापिका विपरीतख्यातिरुपासनीया । न च स्मृतदृश्ययोर्विवेकाग्रहण- मेव • नेदं रजतम् ' इत्येषा प्रतीतिरपबाधते; तथा सति सर्वासां घटादि प्रतीतीनामग्रहणबाधेिन जन्मन उत्पत्तेः सधैव घटादिप्रतीतिरीदृशी प्रसक्त प्रतिषेषरूपा स्यात्, न चैवम् । किंच 'नेदं रजतम्’ इति रजतमत्र निवेश्यं भाति, नाग्रहणम् । अतः प्रतीतिविरूदश्चायं पक्षः । न च