298 बलसिंडिव्याख्या व इमानि” “ अस्थूलम् ” इति च वाक्यद्वयेन लोकसिडपदार्थकेन प्रतिपादना शक्येत्यर्थः । एतदुक्तं भवति-यथा सामान्येन लोकसिद्धस्य पक्षिपदार्थस्य मरकतपदादिभिर्लकतिदैरेव पदारैः संसर्गादपूर्वपक्षिविशेष- प्रतिपत्तिःतथा लोकसिद्धरय कारणसामान्यस्य "यतो वा इमानि भूतानि” “ अस्थूलम्” इत्यादिभिलॉकासिद्धेः पदार्थाः संसर्गादपूर्वं जगतः कारणमपेतसमस्तविशेषं प्रतीयते । अतो नानवबोधकत्वं न चानुवादकत्वं १ परिहारान्तरमाह--सर्वेति । पर एवैकः प्रक्रशोऽविद्याकल्पिनेन तेन तेन नलादिरूपेण सर्वेषु प्रत्ययेषु वेद्यते भासते ; वेद्य इत्यविवक्षितकर्मक निर्देशः; तथाहि - सर्वत्र नीलादिविशेषे प्रकाशसामान्यमनुगतमेकमवभासते । न संप्रकशमने प्रकाशे किंचित्प्रकाशते । तथाच स एष नेति नेत्यात्मनः ” इति भेदोपसंहरेणावशिष्टं सामान्यरूपं ब्रह्म सत्यं प्रदर्शितम् । अथ “ वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” इति दृष्टाः न्तात् सर्वभेदानुस्यूतस्य मृत्तिकावकारणमात्रस्य सत्यस्वं दर्शितम् । तेन मृत्तिकेव घटादिष्वत्यन्तं प्रसिद्धे ब्रह्म । अतः पदर्थत्वाद्वाक्यार्थत्वामिति भावः । ननु तर्वप्रत्ययसिडं चेङ्गल, किं तर्हि शब्दैः प्रतिपाद्यत इत्या- ह्यह-प्रपञ्चस्येति । सप्रपञ्चे तत्सिद्धम् । अनुपथं त्वस्थूलादिशब्देन . प्रतिपाद्यते । न चात्राप्रतीतपदार्थत्वात् संसर्गाप्रतीतिः , नमर्थस्य स्थूला वंश्च प्रसिद्धत्वादिति भावः । नन्वेवं प्रमाणान्तरगोचरत्वं ब्रह्मणः प्राप्तम् । अतः कथमाम्नायैकगोचरत्वं प्रतिज्ञातमित्याशङ्कयाह-प्रविलीनेति । प्रपञ्च रूपेण मानान्तरात्सिद्धम् , अप्रपश्चरूपेण न सिद्धमिति प्रमाणान्सरागोचर मुच्यत इत्यर्थः । परः पुनरन्यथा प्रत्यवतिष्ठते--नन्विति । तत्रोच्यते - प्रमाणस्येति । उपेक्षाापि प्रमाणफलमिष्टम् । न च पुरुषार्थवत्ता प्रमाणलक्षणम् , अपितु परिच्छेनफरवम्; तद्यत्राप्यस्तीति भावः । एतच्च परास्कन्दनमात्रम; तच्व तत नध्ययनविषिविषयस्य तुल्यसांप्रदायिकस्योपेक्षाफलत्वमुचितम् । न जपार्षताध्ययनविधेः, अर्थविघोषार्थत्वादित्यपरितोषात्पारिहारान्तरमाह--अपि वेति । ननु नादन्यपुरुषार्थामकं फलं दृश्यते, यत्र ज्ञानं स्वयम-
पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/६३१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति