पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति

मध्यमाधिकारः

                                                       ८३

भुवो महत्वनिराकरणगोलाध्याये च मयाऽयमर्थोऽतिविस्तरेण व्यावोणत: पूर्वमेव । देशान्तरकमैव साम्प्रतमुच्यते । भूपरिघेयै खखखशराः ते रेखाक्षस्वाक्षा- न्त रांशसंगुणिता भगणांशहूताशच सन्तः फलत्वं व्रजन्ति । रेखाख्योभीष्ट एव रेखास्थस्य देशसंबंधी अक्षो गृह्यते यस्य देशस्य स्वदेशेन सहान्तरयोजनानि ज्ञायन्ते । स्वाक्षस्तु पुनः ज्ञायत एव तयोरन्तरे ये अंशास्तैः खखखशरान् संगुण्य षष्टिशतत्रयेण विभजेदत्रायमर्थः स्वदेशेन सह तुल्याखयो यो रेखायां स्थितो देश: तस्याभीष्टाक्षकस्य रेखास्थदेशस्य चान्तरं किंयति योजनानि । इति तदर्थत्रैराशिकं यदि षष्टि- शतत्रयभागकल्पितस्य भूगोलस्य पंचयोजनसहस्राणि तदस्येष्टभूगोलभागस्य रेखास्थस्वक्षांतरांशमितस्य कियंति योजनानि भवन्तीति । तदर्थमक्षॎान्तरांशैः खखखशरान्सं गुण्य भांशैश्च विभज्य फलं दक्षिणोत्तरयोजनात्मिकाभुजा रेखास्थयोरन्तरम् । स्वदेशस्य ज्ञाताध्वरेखास्थदेशस्य चान्तरं कर्णः । कर्ण कृतेभुजाकृतिं विशोध्य शेषपदं कोटि: योजनात्मिका पूर्वापरा । स्वदेशतुल्याक्ष- रेखस्थदेशयोरन्तरम् ।।३७।।

तेन शेषपदेनेष्टग्रहस्य गुणा भुतिः, भूपरिधिहृता फलं भवति,यस्मादुक्तं फलकृतिहीना देशान्तरस्य कृतिः । शेषपदगुणा भुक्तिः भूपरिधिहृता कलादिलब्धमिति । अत्र तावत् स्वदेशे भूपरिधिरेव देशान्तरकर्मायोग्यः साध्यते ग्रहदेशान्तरफलानयनम् त्रैराशिकायँ तद्यथा यत्र व्यासाघेतुल्यो विषुवदवलंबकः तत्र पञ्चसहस्रः परिधिः यत्रेष्टौ विषुवदवलम्बकः, तत्रः कः परिधिरिति स्वदेशा- वलंबज्यया खखखशरान्संगुणय्य व्यासार्धेन विभजेत् । लब्धं स्वदेशप्रदेशे देशान्तर- परिधिय स्मात्स्वदेशक्षांशा त्रवतेः प्रोह्य शेषभागतुल्येन सूत्रेण मेरु मध्यं कृत्वा यद्वृत्तमुत्पद्यते स देशान्तरकर्मपरिधिः। तया गत्या निरक्षपूर्वापरगतेत्यर्थः । नायमर्थः आचार्येणोअक्त इति चेत्। उक्त एव स्वाक्षतुल्यरेखास्थदेशस्वदेशयोरन्तरे देशान्तराभ्युपगमात् । तत्र स्फुटभूपरिधिना यदभीष्टग्रहभुक्तिर्भवति, तद्देशान्तर- योजनैः किमिति सर्वेषां फलानयनमेव तच्च कलादिकं भवति, तदृणमुज्जयिनी- याम्योत्तर रेखाया एव, अत्र वासना पूर्वमेव व्याख्याता ॥३८॥

मध्यग्रहं स्फुटे चेति, यदि मध्यभुक्त्या तत् स्फुटग्रहे देशान्तरफलमित्यर्थः । एवं कृते स्वदेशे मध्यमो ग्रह उन्मण्डले भवति । अथान्यदेशान्तरकर्मप्रकारः भूपरिधिहृतात् यगुणात्षष्ट्या लब्धं घटिकाद्यथवा कमंर्तिथिष्वृणं धनं ग्रहवत् । अत्र कालेन सह त्रराशिकं यदि स्फुटपरिधियोजनैः षष्टिघटिका भवन्ति तदेष्टदेशांतर- योजनैः कियतय इति लब्धाः घोटकाः कर्मयोग्यासु तिथिषु ग्रहवकायॊः यस्माता एव- तिथयः सावनी भविष्यन्त्यन्यथा सावनदिवसेषु तत्फलं भवति घटिकादिकम् । तथा च क्रियमाणेऽवमशेषान्तरं भवत्यत उक्तम् , कर्मतिथिष्विति । ततस्ताभिर्देशान्तर- संस्कृताभिः तिथिभिर्हर्गणादिकं कृत्वा यद् ग्रहानयनं तद्देशान्तरकृतमेवागच्छति एतत् सर्वं देशान्तरकर्थमस्थिते गोले प्रदर्येशंयेत् । यदत्र परिधिगतंभेजकोटिकणैः