मध्यमfधकारः यानि पञ्चदिनानि सौरसावनयोरन्तरोरपन्नानि प्रJगयायां प्रदर्शितानि यानि च पञ्चावमानि सावनचन्द्रयोरंतरोत्पन्नानि रव्यब्दे तनि मिलि तानि दश भवन्ति अतस्त्रैराशिकम् । यथैकेन रविवर्षेण दशदिनानि, तत् कल्पग ताब्दानां क्रियंतोत्यतो दशभिः कल्पगताब्दा गुण्यन्ते । एकेन च विभज्यन्ते, ततः पञ्चकराश्याप्तं विकल्पद्वयं । ततोऽपि प्रागार्योक्तविधिना यानि दिनावमानि चाप्तानि तेषु गुणिताब्देषु संयोज्य कल्पादेरारभ्य गताघिमासकदिनानि भवन्ति, यत: सौरमानमूलत्वेन सर्वमानानां परिछत्तिः । तत्प्राधान्याद् ग्रहगत्युपलब्धावतः सौरवर्षे यदा रविदिवसे परिछिद्यन्ते तदा षष्टिशतत्रयं भवन्ति । यदा सावन दिवसैः परिछिद्यन्ते तदा पंचषष्ट्यधिकानि श्रोणि शतानि रूपाष्टजिनतुल्यं विकल्पसहितानि भवन्ति यदा पुनश्चान्द्रंदिवसैः परिछिद्यन्ते, तदैकसप्तत्यधिकानि त्रीणि शतानि भवन्ति । सविकलसहितानि तद्विकलं च खयमरससख्यं खखनव रसनवछेद्यमधिकदिनान्यपि सौरचान्द्रदिनानामन्तरस्थान्युच्यन्ते । अतस्तथे वाचार्येणेव निबद्धं; प्रथमं सौरसावनान्तरं साधितं । तच्च सौरे निक्षिप्य सावरी भवति । अतस्तेषां सावयवानां साबनानामूनरात्राण्यपि साधितानि । तानि सावने प्रक्षिप्य चान्द्रो भवति । सौरेण सहान्तरे कृतेऽघिमासदिनान्येव केवलान्यतिरिच्यन्ते तथैवास्मभिरथाधिकमेवोदाहृतमुपपन्नम् । ततोधिकदिनानां त्रिंशता भागे हृते। कल्पगता अधिकमासा भवन्ति तैर्न प्रयोजनम् वर्षान्तिकाहर्गणे शेषास्तिथयः शुद्धि दिनानि विकलं दिनांशेभ्य इति चन्द्रदिनानि तिथयो भवन्त्येव शुद्धिरपि भवति । शोधनत्वाल् विकलं दिनांशेभ्यः कृत्वा सावनदिनानि तान्येव भवन्ति, चैत्रादि प्रथमार्कोदयरविमण्डलान्तयोरन्तरे सवनोऽहर्गणो भवतीत्यर्थः। एतदुक्तं भवति, तदिग्गुणाष्टयोगे त्रिशदुद्धते शेषाण्यत्रिमासकदिनानि चान्द्राण्यवशिष्यन्ते । तान्येव सावनदिनानि चैत्राद्यार्कोदयात्प्रभृति कल्प्यन्ते । यतस्तेषां शुद्धिदिनानां सम्बन्धि यद वमशेषं तच्चैत्रादि तदकदयान्तरमवशेषे मिलितं तिष्ठति । येऽवमांशा: भवद्भिरभि- धीयन्ते । अन्यथामावस्यान्तामवशेषं तदकदयामावास्यां तयोरन्तरं भवति तच्च पृथक्भूतामाचार्येणानीतम् । शुद्धदिनान्यवघ्रावनदिनानि कल्पितानि, एवं कृतेऽमावा स्यानां तदाऊदययोरन्तरं शुद्धं चान्द्रसावनदिनानामन्तरं चावमांशैः संगृहीतं भवति । तत ऊधर्व शुद्धिसावनदिनैः संगृहीतं तावद्यावदर्कोदयदिने रविमण्डलान्ते भविष्यति । चैत्र प्रथमार्कोदयात्पूर्वं तत ऊध्र्वे तत्रैव दिने या घटिकाः तदकं रवि मण्डलान्तरे स्थिताः ताश्च दिनांशेभ्यः षष्टिगुणेभ्यो विभक्तेभ्यः स्वच्छेदेन भवन्ति यस्मात् तदिगुणाब्दयोगो कृतः तदा सावनदिनानामघो दिनांशा आसंस्ते यदा भ्यश्च या घटिकास्ता अपि तावन्यो भवन्तीत्युपपन्नम् । एवं शुडि दिनघटिकांतिक वर्षोपयोगिनीं स्थापयेदवमांशांश्च ।४१। विः भा–तत् ( तयोः ) पूर्वसावितदिनादिक्षयाहाद्योर्दशगुणितगतवर्षस्य च योगस्त्रियता हृताः ( भन्नता ) लब्धं गताघिमासा भवन्ति, दिनांशेभ्योऽवमदिनां
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१०६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति