३२ ब्राह्मस्फुटसिद्धान्ते वा. भा.-कल्पगताब्दानामन्तरानीतदिनानां च या युति, ततो वाराधिपो वर्षान्तिकस्याहर्गणस्य रव्यादिको भवत्ययं वासना रविवर्मणसावन दिनानां पञ्चषष्ट्यधिकं शतत्रयं सविकलं भवति । तत्र पञ्चषष्टयधिकेन शतत्रयेण सप्तहृते सत्येकदिवसो ऽवशिष्यते । वराधिपोऽपि सावनदिनमेकं भुक्ते, अब्दसमवारा गृह्यन्ते । विकलोत्था अपि सावन दिवसा रूपाष्टजनैरित्यादिना ये कृताः तवन्त एव वा रास्तत्र गतवर्षतुल्यसंख्यावारेषु प्रक्षिप्यन्ते । ततो वार गणात् साहृतावशेषः सूर्याद्यो दिनपः तद्दिनकर्षोदये भुक्तो लभ्यते । तदनन्तर ग्रहो वाराधि अतिः, तत्र दिने भवति स एवाब्दाधिपतिर्भवति, यतो रविमेषादि कस्थाहर्गणस्य स एव प्रथमो दिवसोऽतः कल्पगताब्दयुतो यो वाराधिपः ततोऽपि यो ग्रहो द्वितीयो भवति तदादिका वरगणना मेंषाद्यहर्गणस्था कार्या यतो भुक्तो वाराधिपो लभ्यते । अत्र सिद्धान्ते मेषादिद्युगणस्य तदादिक वर गणना कार्यं ति । अब्दभगणवधः कल्पाब्दहृत इति । सामान्योक्ता अप्यब्दाः कल्पगताब्दा गृह्यन्ते । तेषां भगणानाञ्च यो वधोऽसौ कल्पाब्दहृतो रविमण्डलस्था न्तिको मध्यग्रहो भवत, त्रैराशिकमेतत् । एवं सर्वग्रहादयो रविमण्डलान्तिका वर्षोपयोगिनः स्थाप्यन्ते । चैत्रसितप्रतिपदाद्यभीष्टे दिने या व्यतीततिथिसंहितास्ता अत्र गृह्यन्ते चत्रसिताद्यास्तिथयः। शुद्धिविहीनाः पृथगुणा रुद्धेरिति चैत्रसितद्यास्तिथयः गताः ताभ्यः शुद्धि विशोध्य शेषस्तिथयः पृथग्तष्टाः रुद्रगुणकार्या इत्यर्थः। ततोऽव मांशेभ्यो यमनवरसगुलितेभ्यो विभक्तेभ्यः स्वछेदेन फलयुता रविमण्डलान्ते येऽनन्तरमेवानीता अवमांशाः तान्यमनवरसैः संगुण्य खखरसनवसंख्येन स्वछेदेन विभज्य यदवाप्तं फल तेन युतास्ताः कार्या इति । तत एवावधास्ता हृतास्त्रिखागैः ७०३ यत्फलं तान्यवमानि तृविहीना, पृथक्स्थो रविमेवादिद्युगणो भवति, यस्मिन् काले मध्यमो रवि मेषं याति तत्कालात्प्रभृतिसावनान्तोहणंणो भवति सविकलो मुनिहृतशेषः सप्तविभक्तशेषेऽब्दपत्यादिरेव समादिनाधिपस्तत्र दिने' भवतीति वाक्यशेषः यदा पुनश् च चैत्रसितादिभ्यस्तिथिभ्यः शुद्धिर्न शुध्यति तदा विपरीत शोधने कृते शेषो रविमण्डलान्ताद्विपरोताहर्गणो भवति, तमेकादशगुणं रवि- मण्डलान्सावमद्विशोधयेत् । शेषं तत्र दिनेऽवमशेषं भवति, न शुध्यति चेत्तदा गुरणखमुनियुताद्रविमण्डलान्तावमशेषादिको न विपरीताहर्गणं रुद्रगुण विशोधयेदेकोन एव यतस्तत्र विपरीताहरौणो भवति । वारोऽपि रविमण्डलान्त- वारविपरीतारगणनया गण नोया इति, मध्यमाश्च भौमाद्या रविमण्डलान्तिका विपरोताहर्गणैफलेनोना तदैवसिका भवन्तीत्यत्रेयं वासना चैत्रसिताद्यास्ति थयो यदा शुद्धिसावनदिनैः नूनं क्रियते । तदा चैत्राद्यवमशेषे रव्युदयामावस्यां तयोरन्तरं शुद्धिदिनावमशेषं चान्द्रसावनदिनानामन्तरं द्वे अप्येकत्र मिलितेऽवमां शत्वं गते भवतः प्रथमांशा अधिकाः शुद्धोनाः सतिथिभ्यो रविमण्डलान्तचैत्रसिता- द्योरन्तरं चान्द्रशुद्धं भवति सर्वे केवलमवमांशांशं अद्यापि शुध्यतीत्यर्थः। पृथगुण
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१०९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति