पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ ब्राह्मस्फुटसिद्धान्ते इदानों यथाऽभीष्टकालिका भवन्ति तदर्थमार्यामाह पावर्थविपादविने रात्र्यर्धास्तमय दिन्दलदयिकाः। ऊनाः कृत्वा तिथयो देशान्तरनाडिकोनयुताः ॥ ५१ ॥ वा. भा.-पादाघाविपाददिनैरूनीकृत्वा तिथयो यथासंख्यं राज्यधस्तमय दिनदलदयिका ग्रहा आगच्छन्ति । एतदुक्तं भवति, यास्तिथयोऽहर्गणानयने दोयन्ते पञ्चदशभिर्घटिकाभिरूना इत्यर्थः । तदात्र योऽहर्गणो भवति तेन ये प्रहा आनीयन्ते तेऽतीतार्धरात्रकालिका भवन्ति । अथवार्धदिनेन तिथयः ऊनीकृत्वा दीयन्ते घटिकानां त्रिशतेत्यर्थः तदा तदहर्गणादस्तमयका ग्रहा आगच्छन्ति वऽतीते दिनेऽस्तोन्मण्डले इत्यर्थः । अथ विपाददिनोना दीयन्ते तिथयो विगता पाददिनञ्च पञ्चचत्वारिंशदुघटिका इत्यर्थः। ताभिरूनास्तिथयो यदा दीयन्ते तदा तद हरीणावें ग्रहा अगच्छन्ति, ततो दिनदलकालिका भवन्ति । अथ सकलेनेव दिनेनो नास्तिथयो दीयन्ते तदा तदहर्गणाचे ग्रहा आगच्छन्ति, ततो दिवसोर्मण्डलकालिका मागच्छन्ति, किमेतावतैवोक्तकालिका भवन्ति नेत्याह, देशान्तरनाडिका फलोन युता इति, स्वदेशे यावत्यो देशान्तरनाडिकास्ताभिर्यास्तिथयो यथा मुताश्च देशवसात् कृतास्ताः पादाघाविपाददिनैरूनीकृता यदाहर्गणे दीयन्ते तदा तदहणादुक्तकालिका आगच्छन्ति ग्रहा अर्थादेव यदा देशान्तरनाडिकायुताः पादार्धविपाददिनैरधिकाः तिथयोऽहर्गणानयने दयंन्ते तदा गामिनीदिनदलास्त मयार्धरात्रोदयादिषु कालेष्वागच्छन्ति ग्रहः। एवमिष्टघटिकाभिरिष्टकालिका ग्रहः आगच्छन्ति । एष्यदतीतयोरपि कालयोरित्यर्थः । अथवोपलक्षणार्थमेते तद्यथागतो एवान्यथादेशान्तरकृतमध्यास्तावकालिकाः क्रियन्ते । अभीष्टे काले गते गम्ये व स्वमध्यभुक्तिमिष्टनाडिकाहतां विभजेत् षष्टचावाप्तं ततो यत्फलं तेन ग्रहोऽतीतकाले ऊन: कार्योःएष्यत्कालेऽचिकः एवंकृतस्तात्कालिको भवति । वि. भ.पादार्धविषाददिनेरूनीकृत्य तिथयः क्रमशो रात्र्यर्धास्तमयदिन दलौदयिका ग्रहाः समागच्छन्यौदहगैणनयने यास्तिथयो दीयन्ते यदि ता दिन पादमितमगिघंटीभिरूना दीयन्ते तदा तत्र योऽहर्गणो भवति ततः समानीता ग्रहा गतराश्यर्घकालिका भवन्ति, यदि दिनार्चनादहर्गणाद् ग्रहा आनीयन्ते तदा ते गतास्तमयकालिका भवन्ति, विपादोनादइर्गाणावें ग्रहः समागच्छन्ति ते गत दिनार्धकालिका भवन्ति, एवं दिनोनादहर्गणावे ग्रहास्ते गतदिनौदयिका भवन्ति । एवं यद्यहर्गणानयने प्रागपरमदेशान्तरनाडिकानयुतास्तिथयो दीयन्ते तदा स्वदेशे तत्तत्कालिका ग्रहा भवन्तीति । अत्राचार्यकथनमेव प्रमाणं नान्यत्कारणं वक्तं शक्यत इति ॥ ५१ ॥