पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति

मध्यमाधिकारः १२७ अत्राचार्यमतेन चैत्रामाम्तेऽवमशेषमानं समागतम् शुद्धीशवध इत्युक्तत्वान् । इष्टतिथिमानस्य शून्यत्वेनावगमाच्च ।

अत्र प्रागानोतेन समीकरणेनार्थात् वर्षान्तकालिकावमशेषमानं ६२ एभिः संगुण्य ६०० एभिर्विभज्य फलं त्रिशून्यमप्त​संख्यायां संयोज्य हारेणानेना ७०३ नेन हृते सत्यवमानमहर्गणोपयुक्तं भवेदिति ग्रन्थकाराः प्रोचुः । तथामति दिन- मेकमधिकं गृहीतं भवेत् ।


                   ६२ वक्षशे

तथाहि। कल्प्यते ११ शु> ―――――――――――

                     ६००
                       ६२ वक्षशे 
                ११ शु- ―――――――――
                         ६००

तदाऽवमदिनमानम्= ―――――――――――――――――――― इत्येव भवितुं युज्यते।

                  ७०३


परमिहाचार्येण

             ६२ वक्षशे 
    ७०३ +   ―――――――― - ११ शु
              ६०० 
   ―――――――――――――――――――――――――― इदमवमानं स्वीकृतम् ।
               ७०३


                 द्वयोरन्तरेण-
        ६२ वक्षशे                    ६२ वक्षशे 
 ७०३ +  ―――――――― - ११ शु     ११ शु - ――――――――
          ६००                        ६००

―――――――――――――――――――――――――― - ―――――――――――――――――

           ७०३                     ७०३
    
          ७०३
= अन्तर =  ――――― = १ अत आचार्येणैकमधिकमवमदिनमानं गृहीतम् ।  
          ७०३        

तदर्थं “व्येकावमं गृहीत्वे' ति ग्रन्थकाराः प्रोचुः ।

                                           ६२ वक्षशे 

एतेनायमर्थः पर्यवसितो भवति यल्लघ्वहर्गणानयने साधिताद ―――――――――――

                                             ६००

स्मादवमशेषाद्यत्र शुद्धीशवधोऽधिकः स्यात्तत्रावमशेषं त्रिखागमिते संयोज्य तत्र व शुद्धीशवधः शोधनीयः । ततो भागहारेण विभज्यावमशेषं साधनीयम् । तथा कृते सति रूपसमं दिनमन्तरमापद्यते । तदर्थमाचार्येण व्येकमवमं गृहीतमिति सुष्ठुतरम् ।