पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ ब्राह्मस्फुटसिद्धान्ते अत्रैव सिद्धान्तशेखरकारा अपि 'शुद्धिमेव पृथगीश्वराहतां शोधयेदवमशेषकान्निजात् । चेन्न शुध्यति च सत्त्रिखाचलात् शोध्यमेकमपि शुद्धितो दिनम्” इति प्राहुः । तत्रेव व्याख्यायां मक्किभट्टः। चेन्न शुद्धघतीति–एकादश गुणा शुद्धिरवशेष त शुद्धयति चेत् तहिं सत्त्रिखाचलादवमशेषाच्छोधयेत् । अवमशेषे त्रिखाचलं संयोज्य पश्चाच्छुद्धि शोधयेदिति यावत् । यदा त्रिखशैलयोजनेन शोधनं क्रियते तदा विशेषमाहशोध्यमिति । शुद्धितोऽप्येकं दिनं शोधयेत् । अत्र शुद्धिशब्देनावमदिनान्युच्यन्ते । एतदुक्तं भवति । कल्पगतानब्दान् कलिगतान् वा नवगुणादिनगैः संगुणध्य खखव्रनवभि विभज्य लब्धेभ्यो रूपमेकं विशोधयेत् । तदुक्तं ब्रह्मगुप्तेन "व्येकावमं गृहीत्वेति" इति सर्वे चवतचर्वणमेव। भास्कराचर्यास्तु चैत्रादितिथिभ्योऽधिकायां शुद्धौ तिथिषु शुद्धिनं शुद्धघ त्यतः प्राक् चैत्रामान्ततोऽभीष्टदैवसिकदिनावधि तिथयो ग्राह्याः । तत्र व प्राक् वर्षजातां शुद्धि विशोध्याहर्गणः साधनयः । तद्वशेन ये ग्रहाः सिद्धयन्ति तेऽपि प्राग्वषन्तकालिकध्रुवेषु क्षेप्या भवन्तीति प्राहुः। अत्रैव लल्लाचार्येण विपरीतशोधनेनjहर्गणमानीतम् । तद्वाक्यं शिष्य- धीवृद्धिदे यावन्न मे व्रजति प्रभाकरस्तावन्न पूर्वध्रुवकान् परित्यजेत् नेत्रे प्रविष्टेऽपि विलोमकर्म वा शुद्धचा विजह्यादगते क्रियं रवौ। भास्वानृणाहर्गणतश्च सिद्धः पात्यो भचक्रस्वफलानि चैवम् । स्वस्वध्रुवादप्यथखेचराणां शोध्यानि यत्नात् प्रवदन्ति सन्तः ।। इति । इदानीं चैत्रादायब्दाघिपपरिज्ञानार्थं तत्रैव सर्वग्रहणमर्कोदयकाले मध्यमानयनं चार्चयाह चैत्रसिताद्योऽब्दपतिः शुद्धयुनाया दिनादरूपयुतेः। तद्युगणाद्दिनवारः शुद्धयूना मध्यमाः प्रारबत् ॥५॥ वा. भा.-चैत्रसिताब्दपतिः स कथं भवतीत्याह । शुध्यूनायाः कस्याः दिनाब्दरूपयुतेः एतदुक्तं भवति कल्पगताब्ददिनयुतेः सरूपायाः शुद्धिदिनांनि