पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकार १२६ सकलानि संशोध्य शेषस्य सप्तभिर्भागेहूँ तोऽवशेषांकसमोऽकांदिश्चैत्रदो वराचि पतिर्भवति । यदि सत्रिकलाशुद्धिः अय शुद्धौ भाविकलं नास्ति तदाब्दीदनयुतौ रूपं न देयम् । अथवा कलिगताव्दै शुक्राद्योऽदतिः कार्यः तथापि स एव भवत तद्युगणानिवारः शुध्यूना मध्यमा प्राग्वत् । ततश्चैत्रसितादेय घुगणः क्रियते, तस्य तदादिका वा गणना कार्या शुध्यूनश्च मध्यमा रविमण्डलान्तिका: कृता: चैत्रादावर्कोदये मध्यमा: भवन्ति । अथ प्राग्वत् कार्याः। अयमर्थः शुद्धितोऽहर्गणं परिकल्प्य ततो द्विगुणच सप्तत्यंशं स्वनवाक शाधिकमित्यादिना रवेरेकादश लिप्तांशा भौम इयादिना भौमादीनाञ्च यत्फलं भवति, तेन स्वफलेनोना रवि मंडलान्तिकाः कार्याः कृतश्चैत्राद्यर्कोदये लंकायां मध्यमो भवति । एवं च त्रादौ मध्यमाः सर्व एव ग्रहमन्दपातः कायः । अवमशेषद्याधिपत्यदिकञ्च संलिस्म वर्धयोगो स्थापयेत् । तत इष्टदिने चैत्रसिताद्यस्तिथयः पृथग्गुणा रुद्धेरित्यादिना योऽहर्गणो भवति स खण्डो भवति स्वावमशेषसहितः ततो घुगणासन्नत्यं शमित्यादिना ग्रन्थेन प्राग्वत्, सर्वेषां ग्रहशीघ्रमन्दतानां फलान्यानीय चैत्राद्यौ दयिकेषु संयोज्येष्टदिने मध्या भवन्ति, लंकार्कोदये अहर्गणस्य सप्तद्वीपस्य शेषांश समग्रहो द्वितीयो ग्रहः । स तत्र दिने वाराधिपतिर्भवति यतो भुक्ता वरा अहर्गणे भवन्ति, तत्रैवं वासना वल्पगताब्दा दिनयुतौ वारगणस्तिष्ठति, वारञ्चैक कुसावनदिवसे न भवति शुद्धेरभि सावनदिवसात्मिक अत: शुद्धि रब्ददिनयुते विशोधयेत् तावता वाराश्चेत्रादे रतस्य रूपञ्च शुद्धेः सकलत्वादीयते । ततः सप्तहृतशेषश्चैत्रादौ वाराधिपतिर्भवति । चैत्रादिकाहर्गणस्य तदादिका वारग्रहणमपि युज्यत एव शुद्धीनाञ्च रविमण्डलांतिकारयंत्रादौ भवन्ति, रव्युदये यस्माद्याहर्गणेन ग्रहा अग्रतो नीयन्ते । एवं पश्चादपि तुल्यत्वात् त्रैराशिकस्य शुद्धियाहर्गणः एवं यतस्तस्मादुपपन्नम् ॥५८॥ वि. भा-पूवं साधितदिनाद्यस्य कल्पगतवर्षाणां रूपस्य च युतेः शुद्धि रहितायाश्चैत्रसिताद्यो वर्षपतिः साध्योऽर्थाच्छुद्धिरहिताया दिनाद्यकल् गतवर्ष रूपसंयुतेयंच्छेषं तत्सप्तभिर्भक्तं तदा चैत्रादौ रव्यादिवारो भवेत्ततश्चैत्रादितो योऽहर्गणो भवति तत्र चैत्रादिवाराद्दिनवारो ज्ञातव्यस्ततः साधिता ग्रहा शुद्धि- दिनोत्पन्लैग है रहितास्तदा सौरवर्षान्तात्पूर्ववन्मध्यमग्रहा भवन्ति, यदि कोऽभीष्टवर्षी चैत्रादितोऽहर्गणज्ञानं ततो ग्रहान् ततश्च सौरवर्षान्मध्यमग्रहान् ज्ञातु मिष्यति तदा तेनोपरिलिखितप्रकारेण तत्साघनं कार्यमिति ।। ५e ॥ अश्रोपपत्तिः रविवर्षान्तामान्तयोर्मध्यवत्तन्यस्तिथयोऽविशेषतिथयस्ततो वर्षान्तक्षयशेष घटिकाः शोध्याः शेषस्य शुद्धिसंज्ञा सैव वर्षान्तामान्तयोर्मध्ये सावनदिनसंख्या। रविवर्धन्तामान्तयोरंतरे सावनदिनानि= शुद्धिः कल्पादित इष्टसौरवर्षी तं यावत्सावनदिनानि=३६५ ग्व+दिनादिततः कल्पादित इष्टसौरवर्षान्तं