पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ इदानीं चन्द्रमन्दोच्चपातयोरार्यभटोक्त्या दूषणमाह अकृतार्यभटः २मगमन्दूञ्च पातमल्पगं स्वगतेः । तिच्यन्तग्रहणनां घुणाक्षरं तस्य संवादः ॥ ६२ ॥ वा. भा–स्पष्टार्थेयमार्या अकृतार्यभटः। शीघ्रगामित्वादुच्चं पातमल्पगं स्वगतेः। तियन्तग्रहणानां घुणाक्षरं तस्य, इयं वासना चन्द्रमन्दस्य यत्र ब्राह्म सिद्धाते भगणः वसुशरवसुपंचखचन्द्रवसुवसुसमुद्र ४८८१०५८५८ एतेभ्यरार्य भटोक्ता भगणाः सहस्रघ्नाः बहवोऽतो गम्यतेऽधिका मन्दगतिस्तस्य ब्राह्मोक्तगतेः यतो दशगीतिकाषु उक्तं चन्द्रोच्चजस्त्रिवृति–.४८८२१७ एते भगणाः सहस्रध्ना जाता अधिका ब्रह्मभगणेभ्यः ४८८२१६००० तस्मादुपपन्नं शीघ्रगामीन्दुज्चपात ब्रह्मभगणेभ्यश्चोना आर्यभटस्तस्य पात ब्रह्मभगणोऽतः कल्पगतस्तस्य तद्यथा ब्रह्मपातभगणाः वसुरसरुद्रेन्दुगुणद्वित्रियमा २३२३१११६८ दशगीतिकाषु उक्तञ्च पातविलोम इति चतुर्युगस्य सहस्रघ्नाश्च जाता २३२२११६००० एते ब्रह्मभगणेभ्य रूनास्तस्मादुपपन्नपातमल्सगं स्वगते: । यत एवातस्तस्यास्फुटत्वत्तियन्तग्रहाणां घुणाक्षरवसंवादो युज्यते, इति स्वकृता या मध्यगतेः प्रशंसार्थमार्यामाह ॥६२॥ वि. भां--आर्यभटश्चन्द्रमन्दोच्चं स्वगतेः (मकथितचन्द्रमन्दोच्चगतेः) शीघ्र- मर्थान्मत्कयितचन्द्रमन्दोच्चगतेः स्वो (आर्यभट) त तद्गतमघिकां कृतवान् तथा पातं (चन्द्रपातं), अल्पगं (अल्पगत) कृतवान्, तस्य (आर्यभटस्य) तिथ्यन्त- ग्रहणानां मध्ये यदि मया सह कदाचित् संवादो (एक्यं भवेत्तद्घुणाक्षरं बोध्यम् । मदुक्तेन तिथ्यन्तादिना यदि कदाचिदायैभटोक्तानां तिथ्यन्तादनामैक्यं भवेत्तदा तद्घुणाक्षरन्यायभवं बोध्यम् । चन्द्रमन्दोच्चभगणा आर्यभटोक्ताः कल्पे ४८८२१६००० मन्मते कल्पे चन्द्रमन्दोच्चभगणाः=४८८१०५८५८४८८२१००० तथा कल्पे आर्यभटोक्ताश्चन्द्रपातभगणा:=२३२२२६००० मन्मते कल्पे चन्द्रगत- भगणाः=२३२३१११६८7२३२२२६००० अतो मदुक्तचन्द्रमन्दोच्चपातगतिभ्या मायंभटोक्ततद्गत्योरधिकत्वाल्पत्वाच्च तन्मतं न समीचीनमित्याचार्यः (ब्रह्मगुप्तः) कथयति, ब्रह्मगुप्तमनसीत्थं धारणाऽस्ति यन्मदुक्तमेव कल्पचन्द्रमन्दोच्चभगण मानं कल्पचन्द्रपातभगणमानं च युक्तियुक्तं मदुक्तेन सहाऽर्थभटोक्तस्य पार्थक्य मस्ति तेन तन्मतं न समीचीनमिति, ब्रह्मगुप्तकथनमिदं तथ्यमतथ्यं वेति परीक्षणार्थं गणितमेव शरणमिति ॥६२॥ अब आर्यभटोक्त चन्द्रोच्च पौर चन्द्रपात के दोष को कहते हैं । हि. भा–आर्यभट ने मैरी चन्द्रमन्दोच्चगति से चन्द्रमन्दोच्च को शीघ्रगति क्रिया है अर्थात् मैरी चन्द्रमन्दोच्च गति से अपनी (पायंभटीय) चन्द्रमन्दोचचगति को अधिक