पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० ब्राह्मस्फुटसिद्धान्ते ग्रहस्तत्र नीचोच्चवृत्तमध्यं विन्यस्य शीघ्रनीचोच्चवृत्तस्य मध्यचक्रस्फुटगतप्रदेशे कक्षामण्डले विन्यस्य गोलविधिना ततस्त्रैराशिकं यदि भागषष्टिशतत्रयेण परिधे रेतावती भुजज्या तदस्य नीचोच्चवृत्तभागपरिधेः कियतीति फलं नोचोच्चवृत्तस्य भुजो भवति। भुजफलमुच्यते । अतः पुनरपि यदि षष्टिशतत्रयपरिरेतावती कोटिज्या तत् नीचोच्चवृत्तपरिधेः कियतीति फलं नोचोच्चवृत्तस्य कोटि: यत्कोटि फलमभिधीयते भवद्भिः नीचोच्चवृत्तमध्यञ्च सर्वदा भूमध्यात् व्यासार्धतुल्यान्तरे स्थितः । यतस्तत्कक्षामण्डलं न त्यजति । नीचोच्चवृत्तकोटिश्च प्रथमचतुष्टयो केन्द्र पदयोरुपरि भवति । द्वितृतीययोरधस्थस्तन्मध्यादत प्राद्यन्तयोः केन्द्रपदयोनीचोच्च- वृत्तकोटय व्यासार्धमधिकं प्रतिमण्डलप्राप्तिकरणस्य कोटिर्भवति यतः कक्षामण्डला दुपरिग्रहस्तदास्थितो द्वितृतीययोः नूनं नचोच्ववृत्तकोट्यं व व्यासार्धप्रतिमण्डल प्रापिकर्णस्य कोटिर्भवति यस्मात्कमण्डलादधो वर्तते गृहीतभुजध्यातो पुनः नीचोच्चवृत्तभुजज्ये व यतो नीचवृत्तशलाकाग्रहयोस्तदेवान्तरमतएव तदप्युपपन्नमिति ।१४। विभञ्ज्ये (केन्द्रभुजकोटिज्ये) ताणतै (तेन स्पष्टपरिधिना गुणिते) भांशे ३६० भंक्ते तदा फले (भुजफलकोटिफले) भवतः । आद्यन्तयोः पदयोः (प्रथमचतुर्थयोः पदयोरर्थान्मकरादिकेन्द्र) त्रिज्या कोटिफलेन युता कार्या, द्वितृती ययोः पदयोः कर्यादिकेन्द्र) त्रिज्याकोटिफलेन विहीना कार्या तदा कोटिः (स्पष्टा कोटिः) भवेदिति ।१४। अत्रोपपत्तिः भू–भूकेन्द्रम् । भूबिन्दुतस्त्रिज्याव्यासार्धेन वृत्तं कार्यं तत्त्रं वृत्तम् । न बिन्दुतोऽपि तत्रिज्या व्यासार्धेनैव वृत्तं कार्यं तन्मन्दप्रतिवृत्तम् । न=मन्दगोल- केन्द्रम् । भून=मन्दान्यफलज्या , ऊध्र्वा- घरतिरंग खे कार्य, उ==प्रतिवृत्ते उच्च () +न-अप कक्षावृत्ते स्थानम् । उ=उच्चस्थानम् । ग्र=मन्दप्रतिवृत्ते मध्यमग्रहः । म= कक्षावृत्ते मध्यम ग्रहः। वधतभुमरेखो परि प्रबिन्दुतो लम्बः=ग्रल=भुजफलम् मल=कोटिफलम् । ग्रम=भन्दन्त्य फलज्या=रच=भून, भूम=त्रिज्या, ग्रश=मन्दकेन्द्रज्या, ग्रच=मन्दकेन्द्र- कोटिज्या,=मर तदा भूमर, मग़ल