पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१९

पुटपरिशीलयितुं काचित् समस्या अस्ति

ब्राह्मस्फुटसिद्धान्ते

गूढार्थे विसंज्ञतामुपगता श्रीब्रह्मणो भारती
तामुज्जोत्रयितुं श्रमेण मथितो ज्योतिस्त्रिपर्वाम्बुधिः ।
एतरुचि पीयताम्भुवि बुधै रामस्वरूपोदितम्
भूयो विज्ञमतल्लिकाभिरनघं विज्ञानभाष्यामृतम् ॥ ४॥
क्षीरमेव हि गृह्णन्ति हंसा सारविवेकिनः ।
एष्टुकामा: परे पङ्कं कोला लोला जलेष्वपि ॥ ५ ॥

वि.भा. - महादेवः (शङ्करः) जयति (सर्वोत्कर्षोरण वर्त्तते), कीदृशः प्ररणत- सुरासु रमौलिगरत्नप्रभाच्छुरितपादः (प्रणता नतमस्तका ये सुरासुरा देवराक्षसा कुषां मौलिगानि शिरोगतानि यानि रत्नानि हीरकादीनि तेषां प्रभाभिज्यों- तिभिः, छुरिती संमिश्रितो पादौ चरणौ यस्य सः ) पुनः कीदृश. जगदुत्पत्तिस्थिति- विलयानां (जगत: संसारस्योत्पत्तिः प्रादुर्भाव: स्थितिः संरक्षणमवस्थानं वा विलयो नाशस्तेषां कर्त्ता कारकोऽर्थात्संसारोत्पत्तिस्थितिविनाशानां कारणभूत इत्येतावता ब्रह्मगुप्तो महादेवमीश्वरं स्वीकरोतीति सिद्धयति, ईश्वरमन्तराऽन्येषां जगदुलत्तिस्थितिविनाशकरणसामर्थ्याभावात् । विषयस्यास्य दर्शनशास्त्रेण सम्ब- न्धोऽस्ततोऽत्र विशिष्य तद्विचारस्याऽवश्यकता नास्ति ॥ १ ॥

हि.भा. - प्रणाम करते हुए देवों और राक्षसों के मस्तक ( शिर) पर स्थित रत्नों (हीरा आदि) की ज्योति से मिश्रित (मिले हुए ) हैं दोनों चरण (पाँव) जिनके ऐसे महादेवजी सब तरह के उत्कर्ष से विद्यमान हैं. पुनः संसार की उत्पत्ति, स्थिति ( अवस्थान) और विलय (नाश ) के करने वाले हैं। ब्रह्मगुप्ताचार्य की इस उक्ति से महादेव में ईश्वरत्व सिद्ध होता है, क्योंकि जगत् की उत्पत्ति, स्थिति और विनाश करने की शक्ति ईश्वर से भिन्न किसी में नहीं हो सकती। इस विषय का दर्शन शास्त्रों से सम्बन्ध है इसलिए यहाँ उस पर विशेष विचार करने की आवश्यकता नहीं है ॥ १ ॥

इदानीं ग्रन्थारम्भप्रयोजनमाह ।

ब्रह्मोक्त ग्रहगरिणतं महता कालेन यत् इलथीभूतम् ।
अभिधीयते रपुटं तज्जिष्णुसुतब्रह्मगुप्तेन ॥२॥

वि.भा. - ब्रह्मोक्त ( ब्रह्मरणा कथितं ) ग्रहगरिणतं ( ब्रह्मसिद्धान्त ) यदस्ति महता कालेन श्लथीभूतं जातमर्थाद्वहुषु समयेषु व्यतीतेषु तत्र खिली भूतत्वं समागतम् । तत् ( तस्मात्कारणात् ) जिष्णुसुतब्रह्मगुप्तेन ( जिप्पुत्र ब्रह्मगुप्त नामकेन मया ) अभिधीयते । अधुनोपलब्धेषु ब्रह्मसिद्धान्तेषु विष्णुधर्मोत्तर- पुराणान्तर्गतो गद्यमयो द्वितीयः, रचितपञ्चसिद्धान्तिकान्तर्गजस्तृतोयः स्फुटं ( स्पष्टं इलथीभूतत्वरहितं वा ) शाकल्यसंहितान्तर्गत एक:, पञ्चवर्षमययुगवतात्मको वराहमिहिर। एतेषां मध्ये ब्रह्मगुप्तेन कतमः