पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२११

एतत् पृष्ठम् परिष्कृतम् अस्ति

१६४ ब्राह्मस्फुटसिद्धान्ते

                    इदानीं प्रकारान्तरेण नतकर्माह
             दिनदलपरिधिस्फुटतिथिनतकेन्द्रज्यावधो गुणोऽर्केन्द्वोः ।
             इन्द्वतिधृति १६१ भिर्नवनववेदै ४६६ व्यार्सर्धक्रुति१०६६२६०० भक्तः ॥२७॥
             फलविकला वा सुर्ये प्रागृणमसकृन्नते धनं पश्चात् ।
             केन्द्रफलमृणं चन्द्रेऽन्यथा धनं प्रगृणे स्पष् २८॥

वा. भा–दिनदले यौ परिधी रविचंद्रयोरुक्तौ ताभ्यां यौ स्फुटौ ताभ्यां या तिथिस्तिथ्यन्त इत्यर्थः । तस्यास्तिथेर्यो न तः कालस्तस्य योत्क्रमज्या दिनदल परिधिस्फुटतिथिः, नतज्या तस्याः तात्कालिककेन्द्रज्यायाश्च वधः केन्द्रसम्बन्धे यथासंख्यमिच्छति, इन्द्वतिधृतिगुणको यो नवनववेदैश्च पृथक् तदुभयतोपि व्यासार्ध कृतिभक्तः कार्यः फलविकलात् पृथक् एतदुक्तं भवति । स्वमध्याह्नपरिधिना प्रथमचन्द्रार्कौ स्फुटौ कृत्वा ततस्ताभ्यां तिथ्यन्तं साधयेत् । तत्र तिथ्यन्ते स्वदिन दलादर्वाक् पुनरनयोर्वा यावत्यो नतघटिकाः तासां प्राणीकृतानामुत्क्रमज्या ग्राह्याः,यत्र पञ्चदशघटिका नतघटिका भवन्ति तदा त्रिंशते विशोध्य शेषा नता स्वार्धरात्रात् परिकल्प्यास्तासामुक्तवज्ज्या कार्या सा नतज्या भवति । ततस्ति- थ्यन्ते मध्यौ रविचन्द्रौ स्वोच्चसहितौ कृत्वा तद् दिवार्धपरिधिभ्यामेव स्फुटीकार्यौ तयोः स्फुटीक्रियमाणे ये केन्द्रे भवतस्ताभ्यां ज्ये ग्राहृ । ततो रविकेन्द्रज्या नतजीवया गुणात् पुनरिन्द्वतिधृतिभिगुणयेत् ततो व्यासार्धकृत्या विभजेत् । लब्धं फलं विकला एवं चन्द्रकेन्द्रज्या नतज्याहतान्नवनववेदैर्गुणयेत्। ततस्त्रिज्या कृत्या विभजेत् । पलं विकलाः एवं ततः स्वकेन्द्रज्याकरणे यज्ज्यांतरप्रभवाद् गुणकारः तेन स्वकेन्द्र भुक्तिं संगुण्य तत्त्वयमैविभजेत् ।फलं स्वकेन्द्रभुक्तिर्भवति । ततः केन्द्रभुक्तिज्ये पृथक् द्वेऽपि नतज्याहते स्वगुणकारगुणिते कृत्वा त्रिज्या कृत्या विभजेत् । लब्धे पृथक्कले विकलात्मके एव स्वफलविकलानामागतानां धनकलानां फलविकला सूर्ये प्रागृणमसकृन्नते धनं पश्चात् । वा शब्दोऽत्रचन्द्रार्कयोःस्फुटीकरणप्रकाराय । तेनायमर्थः प्राग्नते सूर्ये फलविकला ऋणं भवति । पश्चान्नते धनं प्राक्कपाले नते रवावृणम् । अपरकपालस्थे घनमित्यर्थश्चन्द्रे तु पुनर्यदिकेन्द्रफलमृणं कृतं तदन्यथा प्राग्धनमपरकपालस्थे क्षय इत्यर्थः । स्वफलविकलाः । अथ चन्द्रकेन्द्रफलं धनं कृतं । तर्कफलं विकला वा ऋणं भवति । सर्वथा कपालनिरपेक्षायां एवं कृते कर्मणि स्पष्टौ भवतः । एतच्च कर्म्मासक्रुत्कर्तव्यम् । तत्करणे स्फुटाभ्यां तिथ्यन्तः पुनर्साध्यः तिथ्यन्ते पुनः एतदेव कर्म तावद्यावद् विशेषो भवतः । अत्रोपपत्तिः-तद्यथा सर्वदा स्वे परिध्यंतरं लिप्ता विंशति(२०) एताभिः परमभुजज्या त्रिज्या तुल्या संगुणिता (६५४००)अतो भगणं भगणांशैर्भागे हृते लब्धं विफला(१८१)अंशा वायि विकला १६१० एतावद्रवेः परमं फलान्तरं चंद्रस्यापि परिध्यन्तरं द्वापंचाशल्लिप्ता ५२, एताभिव्यसार्धतुल्या परमभुजज्या गुणिता जाता १७०००४० अतो भगणां