पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ ब्राह्मस्फुटसिद्धान्ते युग्मन्तेऽष्टशरयमा २५८ मन्दफलान्मध्यमः स्फुटो मध्यः । शीव्रफलात् स्पष्टोऽसकृदेवं स्वफलैशं गुरुसौराः ॥३५॥ बुधमन्दपरिधिभागा वसुरामा ३८ सुरगुरोस्त्रयस्त्रशत् । रविजस्य शून्यरामाज्ञशीघ्रपरिधिद्विगुणचन्द्रः १३२ ।।३६।। देवगुरोरधुरसा ६८ भास्करपुत्रस्य शरगुणाः ३५ स्पष्टः । कुजशत्रकेन्द्रपदगतये याल्पज्य त्रिभागोनैः ॥३७ सप्तभिरंशं ६४० घृणिता दलाढयराशिज्ययाप्तांशैः । अधिकोनः कुजमन्दो मृगकक्र्यादौ स्फुटो भवत ॥३८॥ तत्स्फुटपरिधिः खनगाः ७० शत्रस्फुटपरिधिराप्तभागोनाः। वेदजिनास्त्रयंशोनाः २४३।४० स्पोकरणं कुजस्यैवम् ॥३॥ मन्दफलं मध्येऽधं तच्छत्रफलस्य मध्यमे सकले । मध्येऽसकृत् क्षितिसुतः स्पष्टं भुक्तिः स्फुटा ग्रहवत् ॥४०॥ वा. भ.–मन्दोच्चनीचवृत्तस्य गोलाध्याये प्रदर्शतस्य शीघ्रोच्चनीचवृत्तस्य ये परिधिभागाः स्वकक्षा षष्टिशतत्रयकल्पना या स्वपरमफलवशादुपलब्धाः ते तु नीचोच्चवृत्तस्य परिधिभगा उच्यन्ते । सर्वेषां ग्रहाणां सितस्य वद्यथा विषम पदान्ते प्रथमतृतीययोः पदयोरन्तरेत्यर्थस्तत्र नवभगा मन्दनीचोचवृत्तस्य परिधि युग्मान्ते रुद्राः द्विचतुर्थयोरन्ते चैकादशभागाः, अन्तरे च त्रैराशिकमाचार्येण प्रागुक्तमेव, शीघ्रनीचोच्चवृत्तस्यौजान्ते प्रथमतृतीयपदान्ते रसयमलाः, युग्मान्ते द्विचतुर्थपदान्तेऽष्टशरयमाः अवान्तरे वापि त्रैराशिकम् । प्राग्वन्मन्दफलान्मध्यम स्फुटो मध्य इति करणागतो देशान्तरभुजान्तचरदलैः कृतै: मध्ये यः स्वदेशो दयिकः स्वमन्दफलेन स्फुटो मध्ये भवति। यतो मध्ये मन्दफलोच्चनीचवृत्तमध्यमः स्वशीव्रनीचोच्चवृत्तमध्यमतएव शीघ्रफलेन मध्यमः स्फुटो भवति । यतस्तु परिधौ स्फुटो ग्रहः कक्षामण्डल एव दृश्यते अतस्तदुपलब्धये कर्म क्रियते शुक्रस्य तद्यथेष्टकेन्द्र खस्वस्तिकेऽभीष्टकालिकं शुक्रे संस्थाप्य तस्मात्स्वमन्दोच्च विशोध्य केन्द्र " भवति। ततः केन्द्राद् भुजयोक्तवत्कार्या ततः त्रिज्याहता भुजज्येत्यादिना स्कुट- मन्दपरिधिः कार्यः तेन संगुण्य षष्टिशतत्रयेण विभजेत् लब्धस्य भुजज्यां चापं मन्दफलं भवति । षादयूने केन्द्रे तास्कालिकमध्ये क्षय: षड्राश्यधिके केन्द्र धनमेव मध्यमो भवति । योऽस्माभिर्मन्दस्फुट इत्युच्यते । ततस्तं मध्यमं स्वशीघ्रा तात्कालिकाद्विशोध्य शोनकेन्द्रं भवति । तस्मादुक्तवद्भुजकोटिज्ये कार्यं तास्त्रिज्याहता भुजज्येत्यादिना शीघ्रपरिधिस्फुटः कार्यः तेन भुजकोटिज्ये संगुणय्य भांशेविभजेत् लब्धे भुजकोटफले पृथग्भवतस्ततः कोटिफलयुतात् त्रिज्यापदयोराद्यतयो विहीना द्वितीयतृतीययोरिति स्फुटकोटिः कार्या ततः तद्भुजफलकृतियोगात्पदं स्फुटकणैः कार्यः। ततस्तद्गुणितात् व्यासार्धात् लब्धकर्णघनुरिति - औत्रफलं कृत्वा तन्मन्दस्फुटे शुक्रे षड्राश्यूने