पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः २०५ शीघ्रकेन्द्र धनं कार्यमविके ऋणमेवं मन्दशीव्रकर्मद्वयस्फुटः शुक्रो भवति । ततस्तं मध्यं परिकल्प्य तस्मात् स्वमन्दोच्चं विशोध्य मन्दफलमानये तत्कारणागते मध्ये धनं ऋणं वा कृत्वा मन्दस्फुटो मध्यमः कार्यः। तदा शोस्र विशोध्योक्तवच्छीघ्रफलमानयेत्तदनन्तरं मन्दस्फुटे धनं ऋणं वा कृत्वा स्फुटः शुक्र भवति । एवं तावद्यावविशेषः स्फुटो भवति । किन्त्वत्र प्रतिकर्मपरिधेः स्फुटोकरणं कार्यम् । एवं स्वफलंगुरुसौरा इति । एवमनेनैव प्रकारेण बुधवृहस्पति शनैश्चरा स्फुटाः कार्या असकृय किन्तु स्वमंदशोघ्रपरिधिभिस्तेषां स्फुटीकरणं प्रागेव प्रदशितम् । बुधमन्दनीचोच्चवृत्तस्य परिधिभागा: वसुरामा ३८ ॥ सुरगुरोर्मन्दपरिचि भागास्त्रयस्त्रिशत् ३३। रविर्यस्य मन्दपरिधिभागाः शून्यरामा: ३० । एतैर्मन्दफला नयनं शुक्रवत् । बुधशोषानोचोच्चवृत्तस्य परिधिभागाः द्विगुणचन्द्रः १३२॥ देवगुरोः शत्रपरिघिरष्टरसाः ६८ । भास्करपुत्रस्य शरगुणाः ३५ एतैः शत्रफलानयनं शुक्रवत् त एव स्पष्टः यत एषां भास्करा नास्ति । वसन चेष/मुख लब्धिरेव परमफलवशादिति । इदानीं कुजस्फुटीकरणार्थमार्यात्रयं सार्धमाह । मन्दफलमध्येऽर्ध तच्छीघ्र फलस्य मध्यमे सकलो मध्ये सकृदिति सुते स्पष्टो भुक्तिः स्फुटा ग्रहवत् । आदौ तावदिष्टदैवसिकमिष्टकालिकं भौमम् । तात्कालिकशीघ्राद्विशोध्य शीघ्रकेन्द्र कार्यम् । तत् यस्मिन् पदे वर्तते तस्य पदस्य भुक्ता भुक्तयोर्यदल्पं तस्य ज्या ग्राह्या सा कुजकेन्द्रपदयोर्याल्पज्या सा च त्रिभागोनैः सप्तभिरंशैर् णिता कार्या ६४० दलाढचराशिज्याहता दलाढचराशि, तस्य ज्या रवित्रियमाः २३१२ अतो येंऽश आप्तास्तैराप्तांशैरघिक्रोनो यथासंख्यं कुजमन्दो मृगकर्कादौ स्यिते केन्द्रः कार्य: एवं कृते स्फुटो भवति । तत्स्फुटपरिधिः खनगा इति तदिति स्फुटपरिधिः। मन्दस्य परामर्शस्तस्य न संख्या सर्वदा स्फुटपरिचिः शीघ्रस्फुटपरिधिश्चाप्तभागैरूना । वेदजिनास्यंशनाः २४३४० कुजशनकेन्द्रपदगतये याल्पा ज्या त्रिभागोनैः सप्तभिरंशैर्गुणिता दलाढय राशिज्यया हतेत्यतो ये भागा आप्तांशास्तैरूनास्त्रशोना वेदबिना कुजस्य शीघ्र- स्फुटपरिधिर्भवतीत्यर्थः स्पष्टीकरणं कुजस्यैवमिति । एवं कृतेऽस्य स्फुटीकरण मनन्तरोक्तोपकरणैः कार्यम् । तत्कथमिति तदर्थंमाह मन्दफलमध्येऽधं प्रथमं तावन्मन्दफलं स्वोपकरणैरानीयते । अस्याधं मध्ये ग्रहे धनमृणं वा कार्यम् । तच्छीघ्रफलस्य मध्यम इति । तस्मान्मन्दफलार्ध स्फुटान्मध्याच्छीघ्रफलं स्वोपकरणैरानीय तस्याधं मध्यमे मन्दाख़स्फुटे घनमृणं वा सकलं मध्ये । ततो द्वितीयसंस्कृताद्भौमान्मन्दफलमुक्तवत्कृत्वा तत्सकलं करणागते मध्ये धनमृणं वा कार्यम् । ततश्चोक्तवचीत्रफलं तत्तथैच घनं कार्यम् ।