पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ः ब्राह्मस्फुटसिद्धान्ते सती सामान्यदिशः स्फुटक्रान्तिर्भवति । तज्ज्या स्वक्रान्तिज्या भवति । अत्रेयं । वासना । यत्र मंडलज्या व्यासदलतुल्या भवति तदा विषुवन्मंडलापमंडलयोरन्तरं क्रान्ति: सा मेषादौ, अपमंडलार्धा स्थितस्योत्तरा तुलादौ दक्षिणः उत्क्रान्तिज्या रवेः संव स्फुटा यतोऽपमंडल एव रविधं मति चन्द्रादीनां मंडलवर्णाद्भिद्यते । यतो मैषा दावुन्मंडलस्थिता अपि ग्रहःराश्यादिभागेन विक्षेपवशाद्विषुवतो दक्षिणेनापि भवन्ति यतो विमंडलगश्चन्द्रादयो भ्रमन्ति । अतस्तत्क्रान्तिज्या चापस्य स्वविक्षेप युतवियुतस्य या ज्या सा ग्रहस्य स्फुटा स्वक्रान्तिज्या भवति । एतच्च गोलाध्याये ऽस्माभिः पूर्वमेव व्याख्यातम् । उपपन्नं चैतत्सर्वं योले प्रदर्शयेदिति। इदानीं स्वहोरात्रार्धसूत्रद्वयमार्यामाह । अपक्रमग्रहणेन स्वक्रान्ति- ज्योच्यतेतेनायमर्थः । इष्टस्य रव्यादेः प्रहस्याश्विन्यादेर्नक्षत्रस्यागस्त्य मृगव्याधस्य वा यस्यैव स्वक्रान्तिज्यावर्गे व्यासार्धवगीद्विशोध्य मूलं गृह्यते तस्यैव स्वाहोरात्रवृत्तस्य व्यासात्रं भवति । तच्च विषुवतरेण भवति। उत्तरायाः स्वक्रांतिज्याया दक्षिणायाश्च दक्षिणेन तावता व्यासार्धेन यावद्वृत्तमुत्पद्यते तावद्वृत्तं तत्रदिने अहोरात्रेण ग्रहः पश्चाद् भ्राम्यन्नुत्पादयति नक्षत्रादीनां तु पुनः स्थिराण्येव स्वाहोरात्रवृत्तानि इत्यत्र वासनागोले विन्यस्य विषुवदुत्तरेण दक्षिणेन वा क्षितिजे क्रान्तिचापभागादितुल्येऽन्तरे सूत्रस्यकमग्न बद्धवा तावत्येवान्तरे तत्रैवोमंडले बध्नीयात्तद्दक्षिणोत्तरायतं ज्यावदवतिष्ठते । तदर्धक्रांतिज्या तत्क्रान्यग्र सूत्रस्यैकमनं बद्ध्वा द्वितीयमग्न शलाकायां बध्नीयात् । भूमध्यक्रांतिज्यातुल्येऽन्तरे दक्षिणेनोत्तरेण वा स्वाहोरात्रार्धमेवमायतं चतुरत्र क्षेत्रं पूर्वापरायतं निष्पन्नं भवति । निरक्षदेशे साक्षे चोत्तरमुन्नतं भवति । क्रमेण यावमेषस्तत्र सममंडलं प्रविशति । तस्य क्षेत्रस्य क्रांतिज्याकोटिः स्वाहोरात्रार्ध भुजस्तस्या संपाताद् भूमध्यं यावत् व्यासार्थं कर्णः कर्णकृते कोटिकृति विशोध्य मूलं भुजज्या इत्यतो व्यासाचुंबुर्गात् छान्तिज्यावर्गे विशोष्य मूलं गृह्यते । येन भुजा भवति । तच्च स्वाहोरात्रार्धस्तस्मादुपपन्नम् । इदानीं चरदलानयनार्जुमार्याद्वयमाह। रव्यादेरिष्टग्रह्नक्षत्रादीनां वा या स्वक्रान्तिज्या तां स्वदेशविषुवच्छायया संगुणय्य द्वादशभिरुद्धरेत् । फलं क्षितिज्या भवति। सा च स्वाहोरात्रार्धवृत्ते निष्पन्न भवति तामनिष्टं स्थापयेत्, छायानयनार्थं सतः क्षितिज्यां व्यासार्धेन निहत्य स्वाहोरात्रार्धेन विभजेत् । फलंक्षयवृद्धिज्या तस्याः धनुश्चरदलप्राणा भवन्ति। षडुद्धृता विनाड्यो विनाड्यश्च षडुद्धृता नाड्यो भव न्तीति किमत्रोच्यते । वासनात्र तद्यथाऽवक्ष्यमाणविधिनानं कृत्वातप्रमाणव्यासार्धेन वृत्तमुत्पादयेत् । तद्वृत्तं गतेलपूर्वभागे विन्यसेत्तथा यथा विषुवमंडलनिरक्षदेश क्षितिजस्वशक्षितिजसममंडलानां चतुर्णां यः सम्पातस्तस्माद्भ्रूमध्यप्रापि यत्सूत्र तत्र मध्यं तस्य भवति याम्योत्तरभंडले वोत्थितं भवति । यथा याम्योत्तरमंडले वलम्मकोटिरेवमत्र क्रान्तिज्या कोटियैव याम्योत्तरैषज्या भुजा एवमत्र मंडले