पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२६

एतत् पृष्ठम् परिष्कृतम् अस्ति

मध्यनाधिकारः किन्त्वत्र 'लम्बरेखा ~ अन्तर = ०' इत्युपलब्धमतः सिद्धम् ।

 गोलद्वय (वेद्यगोलस्थिरगोल) केन्द्राभ्यां कदम्बे रेवत्याञ्च रेखे नीते तदा भूके-

न्द्रलग्नकोणः = स्थिरगोलीया भगोलीया वा शरकोटि:=दृष्टिस्यानलग्नकोणः = वेद्यगोलीयशरकोटि:(कदम्बगतरेखयो रेवतीगतयोश्च रेखयोः समानान्तरत्वात्)। तदूनो नवत्यंशः = शरचापः =०, इत्युपलब्धम् ।

         अथ प्रकृतमनुसरामः ।

अथ गोलद्वयकेन्द्राभ्यां ध्रुवे रेवत्याञ्च रेखे नीते । तदा गोलद्वयकेन्द्रलग्न- कोणमाने गोलद्वयीयद्युज्याचापमिते तुल्ये ध्रुवगतयो रेखयो रेवतीगतरेखयोश्च समानान्तरत्वात्, तेन ६० – रेवतीद्युज्याचापः = रेवतोक्रान्तिः ततः त्रि X ज्याक्रां

   ज्याजि =ज्याभु.

अस्याश्र्चापं रेवतीभुजांशाः = अयनांशाः । एते परमा= २७° भवन्ति ।

  अत्र प्रसङ्गागतानां गोलद्वयीलग्नवित्रिभदृक्षेपचापाक्षांशचापादीनां

समत्वोपपत्तिरूह्योति ।

   अथ ग्रहाणां पूर्वाभिमुखगतिः कथमिति निर्णयः |
 प्रथमपदे ग्रहे तत्कालीनक्रान्तीनां वेघेन क्रमादधिकत्वं द्वितीयपदे ह्रासत्वं

तृतीयपदे प्रथमपदत्रच्चतुर्यपदे च द्वितीयपदवद् दृश्यतेऽतो ग्रहारणां प्राग्गतित्वं सिद्धम् । ग्रहाणां बहुभिदिने: प्रवहस्य त्वेकेनैवाह्ना भगरणपूत्तिरतो ग्रहागां तदल्पगतित्वं सिद्धम् ।

   ग्रहपिण्डे गोलत्वं नवेत्येतदर्थं ग्रहाणाञ्चोर्ध्वाधररूपेरणावस्थानमेतदर्थञ्च

विचारः ।

  गोलमेकं क्वापि संस्थाप्य दृष्टिस्थाने समायष्टित्रयस्तथा स्थापिता यथा

गोलस्पर्शकराणि दृष्टिसूत्राणि भवेयुस्तानि च दृश्यवृत्ताधारसमसूचीकर्ण- गतानि, श्राधारवृत्तधरातलसमानान्तरं यष्ट्यप्रेषु मियोबद्धरेखात्रयजनितत्रिभु जोपरिष्ठवृत्तमुक्तसूच्याः कर्णाग्रेषु लगतीति सुस्पष्टम् । कृतवृत्तकेन्द्रग- दृष्टिसूत्रं वर्धितं सदाधारवृत्तकेन्द्रगतञ्चैते गोलधर्माः । अथ तावद् ग्रहपिण्डे गोलत्वं प्रकल्प्योक्तगोलधर्मा दृश्यन्तेऽतो ग्रहपिण्डे, गोलत्वं सिद्धम् | वेधेन ग्रह- बिम्बीयकर्णनयनं कथं भवतीति मङ्गलगुरुशनीनां शीघ्रोच्चोपपत्त्यवसरेऽ- त्रैवग्रन्थे प्रदर्शितम् । सर्वेषां ग्रहाणां तन्मानमतुल्यमायाति तेनैव हेनुना ग्रहाणां कक्षानिवेश ऊर्ध्वाधरक्रमेण ( यस्य ग्रहस्य करर्णमानं यस्माद् ग्रहकर्णमा- नादधिकं तदीया कक्षा तद्ग्रहकक्षात उपरिगता भवतीत्यनुसारेण चन्द्रबुधशुक्र- रविकुजगुरुशनिशानां कक्षाश्चन्द्रत उपरिक्रमेण ) सर्वैराचार्यवर्यैः कृत इति ।