पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फुटसिद्धान्ते स्ववृत्तमध्यात्तावत्प्रमाणं सूत्रद्वयं दक्षिणोत्तरायतं बध्नीयात् । तत्क्रांतिज्या भुजज्या पृथक् । ततो मेषान्तरे सूत्रं बध्वोर्वमानीय स्वक्रांत्यग्रे बध्नीयात् सूत्रे एवं वृषमिथुनयोरपि ताः पृथक् कोटयः पूर्वप्रदर्शताः स्वकोट्यूदयेन मेषादीना मुदयो भवति, तिर्यक् स्थान यत विषुवन्मंडलवशेन सर्वस्यैव भपंजरस्य भ्रमण मतस्तासां कोटोनां चापानि क्रियन्ते यतो वृत्तगत्या भपंजरोदयः तस्मादुपन्न चापानि चातः क्रियन्ते । यतो मिथुनकोट्या राशित्रयमप्युदेति । वृषकोट्या राशिद्वयं पृथगुदयप्रमाणानि ज्ञातुमिष्यते । तस्माच्चापान्तराणि युज्यन्ते, चाप- लिप्ताश्च प्रणाः भवन्त्येवं यतः प्राणेन कक्षाभमंडलं भ्रमतीति प्रागेव प्रतिपादितं कर्कादीनां क्रमेण वासना योज्या दक्षिणतस्तुलादीनां क्रमेण मकरादीनामुतन मेण च योज्येति । तद्यथा मेषादयः प्राणाः खमुनिरसेन्दवः १६७० वृषोदयप्राणाः शरनवाग चन्द्रा १७९५ मिथुनोदयप्राणाः पंचाग्निनवशशिनः १९३५ मेषस्य खागषट् चंद्राः शरनंदन गेदवः वृषस्य मिथुनास्याथ पंचाग्निनवरात्रियः । इदानीं प्रका रान्तरेण निरक्षोदयान्प्रदर्शयन्नार्यामाह । वि. भा.-मिथुनाहोरात्रार्ध (मिथुनांत द्युज्यमानं 'परमाल्प द्युज्यमानं) तज्ज्याभिः (मेषादिराशित्रयभुजज्याभिःगुणितं क्रियाद्यहोरात्र दलहृतं (मेषादि शशिधृज्याभक्त) फलनां यानि चापानि तदन्तराणि लङ्कोदयप्राणाः लङ्कोदया सवः) स्युरिति ।।१५।। राश्यादिविन्दुर्यदा निरक्षक्षितिजे समागच्छति ततोऽनन्तरं यावता कालेन राश्यन्तबिन्दुस्तत्क्षितिजे समागच्छेत्तदेव तद्राशेर्लङ्कोदयमानमर्थाद्रश्या- द्युपरि ध्रुवप्रोतवृत्तं राश्यन्तपरित्र ध्रुवप्रोतवृत्तं कार्यं तयोरन्तरे नाडीवृत्ते यच्चापं तत्तद्राशेर्लङ्कोदयमानमिति निम्नलिखितक्षेत्रेण स्फुटं भवति, यथा गो-गोलसन्धिः=मेषादिः। मे=


मेषान्तः = वृषादिःवृ = वृषान्तः =

मिथुनादिःमि=मिथुनान्तः । श्न = | भ्रवः । गोमे=मेष भुजांशः, गोवृ=वृष भुजांशाः । गोमि= मिथुनभुजांशाः। गोन=मेषोदयमानम् । नम=वृषो दयमानम् । मच=मिथुनोदयमानम् । घ्र मेमेषान्त झज्याचापम्, ध्र वृ=वृषान्त वृज्याचापम् । भूमि=मिथुनान्त