९८ ब्राह्मस्फुटसिद्धान्ते नावत्येव धनुः स्वाहोरात्रवृत्त एव बध्नोयात् तत्र स्वोदयास्तसूत्रावच्छिन्नं छेदः नम्यैव सूत्रस्य निरकोदयास्तसूत्रेण सह यत्र संपातः तदवच्छिन्ना जीवेत्युच्यते । युमंडलयोरन्तरज्या पूर्वप्रदशता। छेदतुल्येन व्यासाधन दक्षिणोत्तरायतं वृत्तं छेदोदयास्तदमध्ये सूत्रं कृत्वा विन्यसेत्, तन्य छेदः कर्णः शंकुः कोटिशंकुतलं भुजा यथा विषुवमध्याहं व्यामार्धकणऽवलंबकोटिरक्षष्या भुजज्या याम्योत्तर मंडलस्येत्यनेन बीजेन सर्वाण्येव छायानयनानि भवन्ति इत्येतत्सर्वं गोले प्रदर्शयेदिति नदिदानीं शववानयनार्यमुत्तरमार्यामाह । । छेदोऽवलंबकगुणो व्यासार्ध विभाजितः शक्वोरन्तरमेव छेद आनीतः सोऽव लबकगुण्व्यासार्धविभजितशंकु र्भवति । अत्र वासना स्वाहोरात्रवृत्तेरव्युपलक्षित चिह्न सूत्रस्यैकमनं बद्ध्वा द्वितीयमजं गुरु कुन्वाऽवलंबयेत् । ततो भूमध्यात् द्वितीयं मूत्रं प्रसार्यवलंबितसूत्रस्पृक क्षितिजे बध्नीयात् । तयोः सूत्रयोः यः संपातस्तत्र शकुमूलं तस्मादुपरि रैव यावत् शंकुभूगोलमध्यं यावत् छाया तस्य शंकोच्छेदमूलं यावच्छकुंतल छंदश्च कण त्रैराशिककल्पनेयं यदि व्यासार्धतुल्येऽवलंबकतुल्यः शंकुः तदत्र छेदतुल्ये याम्योत्तरमंडले कियान् शंकुरिति फलमिष्टकाले दिनगतश्चक्रुर्भवत्येव, एवमपराद् अपि योज्या वासना । तुल्यत्वाद्रविछायास्ते इत्येतत्सर्व गोले प्रदर्शये दिति इदानीं छायां द्वितीयप्रकारेणानयनार्यमार्यार्धमाह । वि. आ.-अन्तं दिवस्य गतशेषाल्पस्य (गतशेषयोर्योऽल्पस्तस्यार्थादुन्नत- कालस्य) सौम्येत रगोलयोः (उत्तरदक्षिणगोलयोः) चरार्चन क्रमेणोनाधिकम्य जीवा (सूत्र) स्वाहोरात्रार्धसंगुणिता (युज्यगुण) त्रिज्याहृता (त्रिज्याभक्ता) तदा कला भवति, सा सौम्ययाम्ययोः (उत्तरदक्षिणगोलयोः) क्षितिज्यया (कुज्यया) युतोना तदा छेदो (इष्टहृतिः) भवेत् । छेदः, अवलम्बकगुणः (लम्बज्यागुणितः) व्यासाची विभाजित: त्रिज्याभक्तः) तदेष्टनंकुर्भवेदिति ॥२५ २६ ॥ अत्रोपपत्तिः । याम्योत्तरवृत्तात्पूर्वमर्थान्मध्यान्हृत्पूर्वं यत्र रविवंत्तंते तत उदअक्षितिमी यावद्दिनगतकालःरवितोऽस्तक्षितिजं यावद्दिनशेषकालोऽत्र दिनदोषकालादिनगत कालोऽल्पोऽस्त्यतः स एवोन्नतकालोऽक्षितिजाहोरात्रवृत्तयोः सम्पातोपरिगत- भ्र.वप्रोतवृत्तनाडीवृत्तयोः सम्पाताद्व्युपरिगतश्रुवप्रोतवृत्तनाडीवृत्तयो : सम्पातं भवत्। उत्तरपोले क्षितिजाहोरात्रवृत्तयोः सम्पातोपरिगतश्रवश्रोतवृत्तं नाडीवृत्ते
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३१५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति