पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३२५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ ब्राह्मस्फुटसिद्धान्ते खंडस्य जीवऽत्रापि गृहीता स चोन्मंडलादेवघः प्रवर्तते तच्चरदलप्राणेभ्यो गतप्राण शेषं वा विशोध्यते येनाहोंन्मंडलांतरे स्वाहोरात्रवृत्तखंडस्य या ज्या सा जीवेत्युच्यते । उन्मंडलादधस्तद्रवेश्चरदलमित्यर्थः । क्षयवृद्धिज्या च क्षितिजोन्मंडलयोरन्तरथस्य स्वाहोरात्रवृत्तखंडस्य जीवातोऽवलम्बनं क्षयवृद्धिज्यातो विशोध्यते । येन क्षितिज दुपरि रवेरधश्च स्वाहोरात्रवृत्तखंडस्य ज्याखण्डे संगृहीतं भवति सैव ज्योच्यते । तस्मादुक्त जीवोना क्षयवृद्धिज्या IT सा भवति । यदा पुनस्तदेवावलम्बनं स्वाहोरात्रार्बन विभज्यते । तदा स्वाहोरात्रपरिणता क्षितिजा भवति । तस्मात्तस्या: स्वावलम्बनं विशोध्य छेदो भवति । अथ प्रश्नचरदलकालो तुल्यौ भवतस्तदोन्मंडल एव रविभ- वति । तत्र स्वाहोरात्रापेक्षया क्षितिज्याछेदः तावानुझायो रवेर्भवतस्तदोन्मंडलएव रविर्भवति । तत: स्वाहोरात्रव्यासाचं क्षेपेण क्षयवृद्धिजा या । तावानेवंच्छय इति तावता व्यासार्धेन प्राग्वत्त दर्शयेत् दक्षिणोत्तरावगाही । तस्यापि तात्का लिकशंकुकोटिः शंङलं भुजे ज्यादिका त्रैराशिकवासना योज्या छेदोऽवल बक- गुण इत्यादिभिः सूत्रैर्यदुक्तमुक्तवच्छेषमिति तस्मात् सर्वमुपपन्नम् । यथास्थितं गोले प्रदर्शयेदिति इदानीं युदलान्तरज्यार्घयोरानयनमाह ॥३१ ॥ अथवा ज्या स्वाहोरात्रघातं द्वादशभि: संगुणय्य त्रिज्या विषुवत्कर्णयो र्वघेन विभजेत् । फलं बृहृच्छंकुर्भवति । प्रागाद्यार्धेनात्र वासना । द्वितीये त्रैराशिके व्यासार्श्वस्थाने विषुवत्कर्ताऽवलंबक्रस्थाने द्वादशका कोटिरितोयान्विशेषः । तस्मा- दुपपन्नम्। गोले प्रदर्शयेदिति । इदानीं छायपकर्णछायानयनमुत्तरार्यार्चनाह। कर्णकृते: संशोध्य द्वादशवर्ग पदं छाया । छायाकर्णवर्गाद्वादशशंकोवंगै विशोध्य मूलं तस्यैव शकोछाया तात्कालिको भवति । वासनात्र छायाकणं कर्णं द्वादशक शंकु कोटि: छाया भुजा तस्मात्कर्णाकृतेः कोटिकृति विशोध्य मूल भुजा इत्युपपनम् । एवं यथेष्टप्रमाणस्य शैकोश्छायाकर्णेन योज्यम् । तरुगृहपर्व तादीनां वेति । अथ यत्र दिने चरदलकालादथाल्पप्रश्नकालो भवति दिनगतः शेषश्चोत्तरगोले तत्र छेदः ज्ययोरानयनार्थमार्यामाह ।३२। वि- भा-व्यासाचुंकृति: (त्रिज्यावर्गः) विषुवत्कर्णेन (पलकर्णेन) गुणिता, ज्यास्वाहोरात्रार्धघातहृता (इष्टान्या द्युज्याघातभक्ता) तदा वा (प्रकारान्तरेण) कर्णः (छायाकर्णःभवेत् । घातः (इष्टान्त्या द्युज्याघातः सम्बज्यागुणितःव्यासार्धकृतिभरहः (त्रिज्यावर्गभक्तः) तदा वा (प्रकारन्तरेण) इष्टशैकुर्भवेत् । वा घातो द्वादशगुणितः, त्रिज्यापलकर्णघातभक्तस्तदेष्टशंकु- भवेत् । छायाकर्णवर्गात् द्वादशवगं संशोध्य पदं (मूल) ग्राह्य तदा छाया अवेदिति ॥३१-३२॥