१८ ब्राह्मस्फुटसिद्धान्ते सन्ध्य |==*३६००e=३६०००, कलियुगचरणान्त में सन्ध्यांश=३६००, चारों वर्षे युगचरणों का योग पूर्वकथितं युगमान होता हैं । इति ।।७-८॥ इदानी मायंभटोक्तानां कृतादीनां यानि वर्षसंख्याप्रमाणानि तेषां स्मृतिविरोधाद् दूषणमाह । युगपादानायभटश्चत्वारि समानि कृतयुगादीनि । यदभिहितवान् न तेषां स्मृत्युक्तसमानमेकमपि men वा. भा. युगपदेनात्र चतुर्युगमुच्यते । तेन युगस्य पादा युगपादाः युगचतुर्भागा इत्यर्थः । तावत एव युगपादान् श्राएँ भटो यदभिहितवान् चत्वारि युगानि कृत युगादीनि तदसदुक्तं भवति । यदार्य भटेनोक्तं दश गीतिकासु गतास्ते च मनुयुग(ख) कल्पादेर्युगपाद’ इति तदयुक्तम् । यस्मत् तेषां कृतादियुगानामायंभटोक्तानां स्मृत्युक्तत्वादियुगेन तुल्यमेकमपि न भवत्यत्र च भगवान्मनुः "चत्वार्याहुः सहस्राणि वर्षाणि च कृतं युगम् । तस्य तावच्छती संध्या संध्यांशश्च तथाविधः। एता वद्दिव्येन मानेन, तद्यथा दिव्यवर्षेः कृतयुगपरिमणम् ४००० अस्य संध्या ४०० संध्यांशैश्च ४०० एकत्र ८०० एतत्संध्यासंध्यांशैः सह कृतयुगपरिमाणम् । इतरेषां त्रेतादीनां त्रेता ३००० सन्ध्या ३०० संध्यांशः ३०० द्व।परः २००० संध्या २०० संध्यांशश्च २०० कलिः १००० संध्या १०० संध्यांशः १००, एकत्र त्रेता ३६०० । द्वापरः २४०० कलिः १२०० एतानि षष्टिशतत्रयेण गुणितानि सौरमानेन कृतादीनां वर्षाणि भवन्ति, ब्रह्मगुप्तोक्तयुगानां तुल्यानि १७२८०००। १२९६००० ॥ ८६४००० ॥ ४३२००० नायं भट्टोक्तसममपि। पौलिशे दिव्येन मानेन कृतादीनां प्रमाणाब्दाः ‘अष्टाचत्वारिंशत्पादविहीनाः क्रमात्कृतादीनाम् । अब्दास्ते शतगुणिता ग्रहतुल्य युगं तदेकत्वम्” इति पौलिशसिद्धान्ते द्रष्टव्यम् ॥
वि.भा. --अयेभट: चत्वारि समानि ( तुल्यानि ) कृतयुगादीनि युगपादान् महायुगचतुर्थाशमितान् युगचरणान् यदभिहितवच् ( यत्कथितवान् ) तेषां युग पादानां ( युगचरणानां ) मानमध्ये एकमपि स्मृत्युक्तसमानं ( स्मृतकथितसदृशं ) न, स्मृतिकथितयुगचरणमानानि समानानि न सन्ति तस्मादायंभटकथितानि तुल्य युगचरणमानानि स्मृतिविरुद्धानि तेनोपेक्ष्याणीत्यर्थः। युगचरणसम्बन्धे आर्यभट- वाक्यम् ‘युगपादाः ग ३ च' इति । तथा अष्टाचत्वरिंशत् पादविहीना क्रमाकृतादीनम् । अब्दास्ते शतगुणिता ग्रहतुल्ययुगं तदेकत्वम् । इति पौलिशसिद्धान्तोक्तं दिव्यमानेन कृतादियुगचरण-वर्षमानं स्मृत्युक्तसमानमवलोक्यते । नहि केनापि स्मृत्युक्तवचनेन पुराणोक्तवचनेन चायं भटभतस्य पुष्टिर्भवत्यतस्तन्मतं न शोभनम् ज्यौतिषसिद्धान्तकारेषु केवलं वटेश्वर सिद्धान्तकारः ( वटेश्वरः ) आर्यभटस्येदं मतं स्वकरोत्येतदर्थं किमपि प्रबलं प्रमाणं नोपस्थापयत्यतस्तन्मतमपि न शोभनमिति ॥me।