पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४१

एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ ब्रह्मस्फुटसिद्धान्ते


ख = स्वस्वस्तिकम्‌ ।

सं = गर्भीयगोलसन्धिः ।

सं = पृष्ठीयगोलसन्धिः।

स्था = गर्भीयपरिणतबिम्बोपरिगतकदम्बवृत्ततत्रत्यक्रान्तिवृत्तसंपातविन्दुः ।

स्थां =प्रैष्ठिकबिम्बीयकदम्बवृत्ततत्रत्यक्रान्तिमण्डलसंपातः ।

खस्थां = स्थां ग्रहस्य पृष्टीयनतमागाः ।

खग्र = स्थां ग्रहस्यैव नतांशसमाना गर्भगोले नतभागाः ।

ग्र = दार्ष्टिकगोलीयग्रहपमानो गर्भगोले इङ्मण्डलीयो ग्रहः ।

विंख=गर्भीयबिम्बग्रहनतांशाः ।

वि= वित्रिभम्‌ (पृष्ठगोले)


अत्र खविस्थां चापजात्यत्रिकोणे विख, स्थांविभुजकोट्योर्ज्ञानेन त्रिकोणमित्या खस्थां कर्णचापमानं विधातव्यम्‌ । तदेव सग्रमानं भवेत्‌ । दृग्मण्डलस्यैकत्वात्‌, तथा भूकेन्द्रात्‌ 'ग्र' गतसूत्रदृष्टिस्थानात्‌ स्थागतसूत्रयोः समानान्तरत्वसिद्धेः। ततोऽनन्तरं खविग्रचापीयत्रिभुजे 'खग्र' 'खवि' भुजयोस्तदन्तर्गतकोणस्य दिगंशान्तरस्य च ज्ञानात् 'विग्र' चापमानं प्रजायते । ततो ग्रहान्तरं स्थाग्रमानं ज्ञातव्यम्‌ । इदमेव दृग्गर्भहयोरन्तरमानं भवति यदर्थं विद्वांसो निमज्जन्ति गणिताम्बुधौ । किं बहुनेति ।

अथ रविबुधशुक्रभगणोपपत्तिः ।

अथ “रविभगणा रव्यब्दाः ` इत्याचार्योक्त : कल्पे यावन्तो रविभगणास्तावन्त्येव सौरवर्षमानानि भवन्ति, परं कल्पवर्षप्रमाणं तु विदितमेवास्ति, तत्तुल्यरविभगणमानमपि विदितं जातं, बुधशुक्रयोरुदयसत्तायां रवेरुदयास्तकाले रविबुधयो रविशुक्रयोश्चान्तरांशाः प्रतिदिनं यन्त्रद्वारा ज्ञातव्यास्ते च रारित्रयान्न्युना एवागच्छन्ति । वराहमिहिराचार्येणापि बृहज्जातके पूर्वाचार्योक्तवज्रादियोगलक्षणानां खण्डनावसरे 'पूर्वशास्त्रानुसारेण मया वज्रादयः कृताः । चतुर्थे भवने सूर्याज्ज्ञांसतौ भवतः कथमित्यादिना रविरा सह्‌ तयोरन्त रमलपमेव मवतीति कथ्यते, तेनंव हेतुना रवेरतिनिकटस्थितत्वात्कदाचिदग्रतः कदाचित्पृष्ठस्तस्यानुचराविव सदा तौ (बुधशुक्रौ) व्रजन्तौ दृश्येते, तेन तयोरपि कल्पभगणा रविकल्पभगणतुल्या एवाचार्येः स्वीकृत इति।