पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यग्रहणाधिकारः ४१९ तज्ज्येन्दुशंकुराद्यः सवितुढंक्षेपमण्डले युक्त । अपमण्डलेन भानोश्चन्द्रस्य विमण्डलेन युते ॥ १० ॥ सु. भा.- उत्तरायां वित्रिभावनतौ वित्रिभलग्नाद्य उत्तरो वा दक्षिणो विक्षेपस्तेन शंकुधनुवित्रिभलग्नशंकुचापं क्रमेण हीनं संयुक्त च कार्यम् । दक्षिणा वनतौ च तदेव शंकुचापमुत्तरेण विक्षेपेणाधिकं दक्षिणेनोनं कार्यम् । एवं संस्कृतं चापं यत् तज्ज्या इन्दोः शंकुरर्थाच्चन्द्रस्य वित्रिभशंकुई गतिरित्यर्थः। सवितुः सूर्यस्याद्यः पूवंसाधितो वित्रिभशंकुरेव दृग्गतिरिति । इक्क्षेपमण्डले वित्रिभलग्नदृङ् मण्डलेन युक्तं भानोर्ड*गतिविमण्डलेन युते चन्द्रस्य दृग्गतिरिति । अत्रैतदुक्त’ भवति । इवक्षेपमण्डलं यत्र क्रान्तिमण्डले लग्नं तस्य बिन्दोवित्रिभस्य शंकुसूर्यस्य दृग्गतिः। अत्रोपपत्तिः। क्रान्तिवृत्ते यत्र दृक् क्षेपमण्डलं लग्नं तस्माद्विमण्डलावधि दृवक्षेपमण्डले चापांशाः स्वल्पान्तराद्वित्रिभलग्नशरसमाः । अत उत्तरायां वित्रि- भावनतावुत्तरे वित्रिभशरे द्वयोर्योगेन दृक्क्षेपमण्डले खाद्धद्विमण्डलावधि चापांशा- आंद्रहवक्षेपचापांशाः=विन+विश। एते नवतेश्च्युताश्चन्द्रदृग्गतिचापांशाः=:९० विन-विश=विशचा-विंशं । एवं दक्षिणे वित्रिभशरे चन्द्रहृक्क्षेप चापांशाः=विन विश । दृग्गति:=९०-विन+विश=विशंचा+विश । दक्षिणावनतौ च विपरीत संस्कारः स्फुटः । अत उपपन्न' चन्द्रग्गतिसाधनम् । दृक्क्षेपमण्डलं क्रान्ति वृत्ते लम्वरूपं न विमण्डले । अतश्चन्द्रदृचक्षेपतो या चन्द्रनतिः सा न कदम्ब प्रोते ऽतस्तत्संस्कारेण न स्फुटा नतिरिति सिद्धान्तविदां स्फुटमेव। भास्करेणापि प्रथम मेतन्मतानुसारेण ‘दृग्ज्यैव या वित्रिभलग्नशंको’ रित्यादिविधिना चन्द्रदृक्क्षेपं प्रसाध्य तद्वशात् स्फुटां नतं कृत्वा पश्चात् सूर्यग्रहणाधिकारान्ते ‘शशिदृक्क्षेपार्थं यद्वित्रिभलग्नेषुणाऽत्रसंस्करणम्इत्यादिनेदमानयन खण्डितम् ।। ९-१० ।। वि. भा-उत्तरायां वित्रिभावनतो वित्रिभलग्नात् य उत्तरो वा दक्षिणो विक्षेपः (शरः) तेन शंकुधनुः (वित्रिभलग्नशंकुचापं) क्रमेण हीनं संयुक्त च कायं दक्षिणावनतौ तदेव शंकुचापं अधिकोनं (उत्तरेण विक्षेपेणाचिकी दक्षिणेन हीनं) कार्यं तदा तज्ज्या (संस्कृत चापज्या) इन्दुशंकुः (चन्द्रस्य वित्रिभशंकुड्ग्गतिरि त्यर्थः) सवितुः (सूर्यस्य) आद्यः (पूवं सावितो वित्रिभशेकु) वास्तवो दृग्गतिर्भ वति । दृक् क्षेपमण्डले (वित्रिभलग्नदृङ्मण्डले) पममण्डलेन (क्रान्तिवृत्तेन) युक्त भानोः (सूर्यस्य) दृग्गतिः । विमण्डलेन युते चन्द्रस्य दृग्गतिरिति, अनैतदुक्त भवति, हक्क्षेपवृत्तं यत्र क्रान्तिवृत्ते लगति तस्य बिन्दवत्रिभलग्नशंकुः सूर्यस्य दृग्गतिः । तदेव इक्क्षेपवृत्तं चन्द्र विमण्डले यत्र लग्नं तस्य विन्दोः शंकुश्चन्द्रस्य दृग्गति: इति ॥ ९-१० ।।