पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यग्रहणविकारः ४३१ चशात् स्थित्यर्थं साध्यं तद्दनात् स्फुटतिथ्यन्ताल्लम्बनं युतिश्च साध्या। तात्का- लिकसपातचन्द्रवशात् शरः साध्यः । नतिशरसंस्कारेण स्पष्टविक्षेपः साध्यस्तस्मा- च्छशिग्रहणवल् स्थित्यर्थं साध्यं तद्नात् तिथ्यन्ताद् गुणितागतात् पुनर्लम्बनं, नतिः स्पष्टशरः स्फुटस्थित्यर्ध च सर्वमानेयं यावदविशेषः। अविशेषे यल्लम्बनं तत् तात्कालिकस्फुट विक्षेपजनितस्थित्यर्धानगणितागतदशन्तेि यथागतं धनं वा ऋणं संस्कार्यम् । एवं स्फुटः स्पर्शकालः । एवं स्थित्यर्धयुक्तात् तिथ्यन्तात् स्फुटमोक्षकालो भवति । तत्स्फुटतिथिच्छेदान्तरे स्फुटे स्थितिदले भवतः । अर्थात् तत्स्फुटस्पर्शका लस्य वा स्फुटमोक्षकालस्य स्पष्टतिथिच्छेदस्य स्पष्टदर्शान्तकालस्य चान्तरे स्पर्श मौक्षिके स्पष्ट स्थितिखण्डे भवेताम् । एवं यथा स्थित्यर्धेन स्पष्ट स्थितिखण्डे साधिते तथैवासकृकर्मणा स्वविमर्दार्धेन स्पष्टे विमर्दातुं साध्ये । अर्थात् पूर्ववद सकृद्विधिना स्फुटौ संमीलनोन्मीलनकालौ प्रसाध्य तन्मध्यकालान्तरयोः समाने स्पष्टे विमर्दखण्डे ज्ञेये । ‘तिथ्यन्ताद्गणितागतात् स्थितिदलेनोनाधिकाल्लम्बन मित्यादिभास्करोक्तमेतदनुरूपम्। इहाचायेण प्रथमं मध्यकाललम्बनमेव स्थूलात् स्पर्धा मोक्षे च कल्पितमित्यनेनासकृत्कर्मणि न काचिद्धानिरिति ज्योतिर्विदां प्रसि द्धमिति । अत्रोपपत्तिः । गर्भक्षितिजात् कियतीष्टघटिकासु पृष्ठाभिप्रायेण स्पर्शकालो भवतीति किलापेक्षितम् । कल्प्यते यदा पृष्ठाभिप्रायेण स्पर्ऽभूत् तदा वि= रविकेन्द्रम्=रविस्थानम् । वि, चन्द्रबिम्बकेन्द्रम् । च-चन्द्रस्थानम्। चचर= कान्तिवृत्तखण्डस्। ख=खस्विस्तकम् । खवि, वि.=चन्द्रदृङ्मण्डलम् । ख वि वि = रविदृङ्मण्डलम् । वि, =लम्बितचन्द्रबिम्बकेन्द्रम् । विं=लम्बित रविबिम्बकेन्द्रम् । वि, च=चन्द्रस्य स्फुटशरः । विर==रविनतिसमो रवेः स्पष्टशरः । विस=कान्तिवृत्त समानान्तरवृत्तम् । विं,स=स्फुटस्पर्शकाले स्पष्टशरः । वि क, =मानैक्यार्घम् । एतानि चापानि लघुत्वात् सरलरेखाकाराण्या- चाणैः कल्पितानि । अतो वि वि, सजात्ये वि वि, वि, सवर्णान्तरपदसमाः स्फुटस्थि त्यर्धकलाः=वि स= र च=स्फुस्थिक । चच =चन्द्रलम्बन कलाः =चलक । वि=र रविलस्बन कलाः= रलंक । अनयो रविचन्द्रलम्बनयोरन्तरकलाः =(ल, क) षष्टिगुणा रविचन्द्रगत्यन्तरकलाहृता आचार्यसाविताः स्पर्शा लम्बननाः =ल, तथा स्फुटस्थित्यर्धकलाः= (स्फुस्थिक) षष्टिगुणा गत्यन्तर हृता आचार्योक्त स्फुटं स्थित्यर्धे घटिकात्मकम्=स्फुस्थि । अथैतस्मिन् स्पर्शकाले गर्भाभिप्रायेण