पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मस्फुटसिद्धान्ते अथ चन्द्रमन्दोच्चभगणोपपत्तिः उच्चं द्विविधं मन्दशीत्रभेदेनोच्चं भवत्यर्यान्मदोच्चं शघ्रोच्चं च । शीघ्राख्य तुङ्गस्य तयोरभावादित्यादिभास्करोक्ते रविचन्द्रयोः केवलं मन्दोच्चमेव भवति । चन्द्रस्य बिम्बकलायाः परमाल्पत्वं तन्मन्दोच्चस्थानेभवेत्तत्र तदा यावान् वेघागतः स्पष्टचन्द्र स्तावदेव तन्मन्दोच्चम् । एवं द्वितीयपर्ययेऽपि चन्द्रमन्दोच्च तयोश्चन्द्रमन्दोच्चयोरन्तरं तद्दिनजा (प्रथमपर्ययीयवेधविदितचन्द्रमन्दोच्च द्वितीयपत्रीयीयवेधविदितचन्द्रमन्दोच्च यावद्यावन्ति दिनानि) चन्द्रमन्दोच- गतिर्जाता ततोऽनुपतो यद्येभिदिनेरियं चन्द्रमन्दोचगतिस्तदैकेन दिनेन किमिति समागतैकदिनजा चन्द्रमन्दोच्चगतिस्ततो यथैकेन दिनेनेयं चन्द्रमन्दोच्चगतिस्तदा कल्पकुदिनैः किमित्यनुपातेन कल्पे चन्द्रमन्दोच्चभगणा जायन्ते । बिम्बीयकर्ण- सम्बन्धेनापि चन्द्रमन्दोच्चभगणोपपत्तिर्भवितुमर्हति । यथा वेधेन प्रत्यहं चन्द्रस्य बिम्बीयकर्णाज्ञानं कार्यम् । यदा चन्द्रस्य शराभावो भवेत्तदा चन्द्रबिम्बीयकर्णस्य परमत्वे वेघेन स्पष्टचन्द्रो बोद्धव्यस्तदेव तदा तन्मन्दोच्च भवेत् । एवं द्वितीयपर्ययेऽपि चन्द्रमन्दोच्चं ज्ञात्वा तयोरन्तरेण तदन्तगीतदिनप्रमाणेन च पूर्ववच्चन्द्रमन्दोच्च- भगणज्ञानं भवेदिति । बिम्बकलासम्बन्धेन भगणज्ञानार्थं लम्बनावनति दर्शनार्थमियं भूरन्यथा केवलं बिन्दुरेव भूरिति भास्कराचायक्तिरेवाश्रयणीया अन्यथा भगणज्ञानमतीव दुर्घटमिति ॥ अथ चन्द्रपातभगणपपत्तिः । अत्र दृष्टिस्थानाभिप्रायिकगोलस्य निर्माणं कार्यं स एव वेधगोलःदृष्टि स्थानाद ( वेधगोलकेन्द्रात् ) चन्द्रो वेपो यत्र वेधगोले समुपलब्धस्तदुधुरि वेधगोलीयं कदम्बप्रोतवृत्तं कार्यं . तत्तद्गोलोयक्रान्ति वृत्ते यत्र लगति ततश्चन्द्रबिम्बकेन्द्रं यावकदम्बश्रोतवृत्ते चन्द्रशरांशः । ततः वेधगोलीय शरज्या त्रि वेधगोल व्याई =चन्द्रगोले शरज्या, वेधगोलीयभगोलीययोः क्रान्तिवृत्त धरातलयोरन्तरं यत्तस्य चन्द्रगोलीयशरज्यायां संस्करणेन यद् भवति तद्वशाद् भगोलीयशरज्ञानं भवेदेव । एवं प्रतिदिनं वेधेन भगोलीयशरज्याज्ञानं कार्यम् । यस्मिन् दिने दक्षिणशराभाव उपलब्घस्तत्र वेधेन यः साधितश्चन्द्रः स भगणा द्वादशराशितः) च्छोधितस्तदा चन्द्रपातो भवेत्, एवमेव द्वितीयपर्ययेऽपि तज्ज्ञानं कार्यं, स च पातः पूर्वंपातात्पृष्ठ एव भवति, अत: पातस्य विलोमा गतिरस्तीत सिद्धम् । एतत्पातद्वयान्तरजनितपातगत्या वेधदिनान्तरवशेन चाऽनुपातेनैकदिनजा पातगतिर्भवेत्ततः पूर्ववत्कल्पे चन्द्रपातभगणा जायन्ते, परमेतदानयनं न समीचीनं, चन्द्रकर्णस्य त्रिज्यतोऽल्पत्वादुपर्युक्तोपपत्तौ तत्रिज्यासमग्रहणादिति ।। अथ बुधशुक्रयोः शीघ्रोच्चभगणोपपत्तिः वेघगोलीयस्पष्टघशुक्राभ्यां भूगर्भगोलीयं तयोशनं (चन्द्रभगणोपपत्तौ