पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/४९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

४८२ ब्राह्मस्फुटसिद्धान्ते इदानीं शृङ्गोन्नत्यर्थमितिकर्त्तव्यतामाह रविचन्द्रपातलग्नैः स्वक्रान्त्युदयात् स्वलग्नगतशेषाः ॥ घटिका: खचरार्धास्तात् स्वेष्टौ रविशीतगू कृत्वा ॥४॥ सु. भा. - खचरार्धास्ताद्रव्यस्तात् स्वलग्नगतशेषा: शशिन उदयलग्नस्य गताः शेषा वा घटिकाः साध्याः | कैः । रविचन्द्रपातलग्नैस्तथा स्वक्रान्त्युदयाच्च । अत्रैतदुक्तं भवति । रव्यस्तकाले रविश्चन्द्रः पातो लग्नम् । एतानि कृत्वा तैः स्वक्रान्त्या चन्द्रक्रान्त्या उदयाच्चन्द्रोदयलग्नाच्चोदयलग्नस्य गता वा शेषा घटिका ऊनस्य भोग्योऽधिकभुक्तयुक्तो मध्योदयाढ्य इत्यनेन विधिना साध्याः | सूर्या- स्तानन्तरं यावतीभिर्घटिकाभिश्चन्द्रास्तस्ता गता घटिकाः । सूर्यास्तात् प्राग् यावती- भिर्घटिकाभिश्चन्द्रास्तस्ता एष्या घटिकाः । एवं प्राक् क्षितिजे रव्युदयाद् गता एष्या वा चन्द्रोदयघटिका: साध्या इत्यर्थादवगम्यते । यस्मिन् दिने सूर्यास्तादनन्तरं कालांशघटिकातोऽधिकाभिश्चन्द्रास्त: | रव्युदयात् प्राक् कालांशघटिकातोऽधि- काभिश्चन्द्रोदयस्तस्मिन्नेव चन्द्रदर्शनं सति दर्शने शृङ्गोन्नतिः साध्या | सित- शृङ्गोन्नतिश्च बिम्बार्धाल्पे चन्द्रसितेऽत एव भास्करेण मासान्तपादे प्रथमे च शृंगोन्नतिः साधिता द्वितीयतृतीयपादयोश्च बिम्बार्धाल्पं कृष्णं भवति । अतस्तत्र कृष्णशृङ्गोन्नतिर्भवति । इत्याचार्येण शृंगोन्नतिद्वयं साध्यते । तदर्थं पादचर्चा न कृता । भास्करेण न हि स्पष्टा कृष्णशृङ्गोन्नतिर्नरैरुपलक्ष्यत इति मनसि संप्रधार्य सितशृंगोन्नतिरेव साधिता। उक्तं च 'द्वितीयतृतीययोरपि चरण- योर्ब्रह्मगुप्तादिभिः कृष्णशृंगोन्नतिरानीता सा मम न संमता । न हि नरैः कृष्ण- शृंगोन्नतिः स्पष्टोपलक्ष्यते'। स्वेष्टौ स्वेष्टकालिकौ रविशीतगू रविचन्द्रौ कृत्वा विक्षेपक्रान्त्यंशाः साध्या इत्यध्याहार्यम् ||४||

वि. भा. - खचरार्धास्तात् ( रव्यस्तात् ) स्वलग्नगतशेषा: शशिन उदय- लग्नस्य गताः शेषाः वा घटिका रविचन्द्रपातलग्नैस्तथा स्वक्रान्त्युदयाच्च साध्याः | अत्रैतदुक्तं भवति, सूर्यास्तकाले रविश्चन्द्रः चन्द्रपातो लग्नं च कृत्वा तैः चन्द्र- क्रान्त्या उदयात् (चन्द्रोदयलग्नात् ) उदयलग्नस्य गता वा शेषा घटिका 'ऊनस्य भोग्योऽधिकभुक्तयुक्तो मध्योदयाढ्य' इत्यनेन साध्याः । सूर्यास्तानन्तरं यावतीभिर्घटीभिश्चन्द्रास्तस्ता गतघटिकाः । तथा सूर्यास्तात्पूर्वं यावतीभिघंटी- भिश्चन्द्रास्तस्ता एष्या घटिका: । एवं पूर्वक्षितिजे सूर्योदयाद् गता एष्याश्च चन्द्रोदयघढ्यो विधेयाः। यस्मिन् दिने सूर्यास्तात्परं कालांशघटीतोऽधिकाभिघं- टीभिश्चन्द्रास्तः, सूर्योदयात् पूर्वं कालांशघटीतोऽधिकाभिश्चन्द्रोदयस्तस्मिन्नेव चन्द्रदर्शने शृङ्गोन्नतिः साध्या | सितशृङ्गोन्नतिश्च बिम्बार्धाल्पे चन्द्रसिते भवत्यत एव मासान्तपादे प्रथमे भास्करेण शृङ्गोन्नतिसाधनं कृतम् । द्वितीयतृतीय- पादयोर्बिम्बार्धाल्पं कृष्णं भवति, तेन तत्र कृष्णशृङ्गोन्नतिर्भवति, आचार्येण