पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति

४२ ब्राह्मस्फुटसिद्धान्त

४८०)वसुशरवसुपञ्चखचन्द्रवसुवसुसमुद्रा:(अष्टपञ्चाष्टपञ्चशून्यैकाष्टाष्टचत्वाराः४८८१०-

५८५८), द्विनवयमाः (२६२), द्वित्रिगुणाः (३३२), शरेषुवसवः (पञ्चपञ्चाष्टौ ८५५)

त्रिपञ्च रसा: (त्रिपद्मषट्का:६५३), शशिवेदाः (एकचत्वारिंशत् (४१) एते क्रमशोऽ-

र्कादीनां (रव्यादिग्रहाणां) मन्दानां (मन्दोच्चानां) कल्पभगणा भवन्ति, वसुरसरु-

द्रेन्दुगुणद्वित्रियमाः । अष्टषडेकादशैकत्रिद्वित्रियमाः२३२३१११६८ ), सप्तरसपक्षाः

(सप्तषट्दस्त्राः २६७), शशियमशराः (एकद्विपञ्च ५२१), गुणरसाः (त्रिषष्टिः),

त्रिनववसवः (त्रिनवाष्टौ (८४३), समुद्रवसुविषयाः चतुरष्टपञ्च (५८४) इति

चन्द्रादीनां ग्रहाणां विलोमपातानां( विपरीतगतिकपातसंज्ञकानां ), अश्विन्यादि-

भगणस्य पश्रात् व्रजतःकल्पे भगणा भवन्तीति ॥१५-२१॥

इदानीं भभ्रमान् कुदिनानि चाह

अपरिवर्ताः खचतुष्टय-शराब्धिरसगुणयमद्विवसुतिथयः १५८२२३६४५००००।

रविभगणोना भानोः सावनदिवसाः कुदिवसास्ते ॥२२॥

वा भा-पश्र्वाद् व्रजतः पश्र्विमाभिमुखं भ्रमतः अश्विन्यादिभ गणस्य कल्पे

परिवर्ताः कियन्त इत्याह ।

खचतुष्टयशराब्धिरसगुण-यम-द्विवसुतिथयः १५८२२३६४५०००० एत एव

रविभगणैरूनाः सन्तो भानोस्संबन्धिनः सावनदिवसाः भवन्ति । कल्पे एतावन्तोऽ-

कौदया भवन्ति । कुदिवसाः भूमेः संबन्धिनो दिवसा वा एते । अयमभिप्रायो

भूर्वा भ्रमति प्राङ्मुखा सा चावर्त्तवत्यैतावतो वारान् क्षितिजे रविणा सह

युज्यते । तथाप्यर्को समो भवति, रविग्रणमत्र ग्रहोपलक्षणार्थम् । तेन यस्यैव

ग्रहस्य भगणैरूना नक्षत्रपरिवर्त्ताः क्रियन्ते तस्यैव सावनदिवसा भवन्ति । कल्पे

तावन्त उदयास्तस्य, अर्थादेव नक्षत्रस्य परिवर्ततुल्या उदयाः, यतो नक्षत्रम-

गतिमतो ग्रहस्य स्वमुक्तितुल्यमन्तर-प्रतिदिनं नक्षत्रेण सह भवत्यतः कल्पेन

स्वभगण-तुल्यमन्तरं भवतीति कृत्वा नक्षत्रपरिवर्तेभ्यो भगणान्संशोध्य तदुदयाः

भवन्ति । सावनमुदयादुदय इति लक्षणेन सावनदिवसा उच्यन्ते, तद्यथा-

नक्षत्रपरिवर्त्ता १५८२२३६४५०००० रविभगणैरमीभि; ४३२००००००० ऊना

जाताः १५७७६ १६४५०००० खचतुष्टयशराब्धिरसचन्द्रनवागमुनितिथयः । तथा

च बलभद्रः 'खचतुष्टयशराब्ध्यष्टिनवागागशरेन्दवः । कल्पे सूर्योदया ज्ञेयास्त

एव च कुवासराः ' ।। इति ।।

वि. भा–कल्पे १५८२२३६४५०००० एतावन्तो भभ्रमा भवन्ति । ते भभ्रमा

रविभगणोनाः (रविभगणरहिताः) तदा भानोः (सूर्यस्य) सावनदिवसाः स्युः ।

ते कुदिवसाः (कुदिनानि) स्युः, कल्पे यावन्ति सूर्यसावनदिनानि तान्येव कुदिन

संज्ञकानि ।।२२।।